________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६०
चरक-संहिता। । कतिधापुरुषीयं शारीरम गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशात् तु त्रिलिनः। अभवन महदादीनि तत्त्वानि च यथाक्रमम् ।। इति । तद् यथा-त्रिगुणलक्षणादव्यक्तान्महान् महतोऽहङ्कारोऽहङ्काराद् भूतादेस्तामसात् क्रमेण शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रञ्च महाभूतं बभूव। एते शब्दमात्रखादयः पञ्च धातवश्चेतना षष्ठधातुरिति षड़ धातुः पुरुषस्तस्य मुखानि राजसादहङ्कारात् तैजसाख्याद् दशेन्द्रियाण्युत्पद्यन्ते। सात्त्विकादहकारावकारिकाख्यान्मनोऽजायताधिदेवताश्चैषामित्येवश्चाकाशः कियदंशो दिकालयुक्तः स्थूलो बभूव । तस्य स्पर्शमात्रे वायावनुप्रवेशाद् द्विगुणो वायुर्वभूव । शब्दश्च शीतस्पर्शश्च। तस्य द्विगुणस्य वायो रूपमात्र तेजस्यनुप्रवेशात् तेजस्त्रिगुणं बभूव । तस्य रूपश्च लोहितम् । स्पर्शश्चोष्णोऽभूत्। अथ तत् तेजो रसतन्मात्रमनुप्राविशत्, तेनापः शब्दशीतस्पर्शशुक्लवर्णद्रवरसगुणा जाताः। ता आपो गन्धतन्मात्रं प्राविशन। तेन शब्दखरस्पर्शकृष्णवर्णसाधारणरसगन्धगुणा पृथिवी बभूव। इति पञ्चभूतानि स्थूलानि दशेन्द्रियाणि मनोऽहङ्कारो महांश्चित्तञ्चेत्येकोनविंशतिर्मुखानि। उक्तञ्च मनुना। योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः। सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्भभौ ॥ इति । एष चतुविंशतितत्त्वमयलोकात्मकः पड़ धातुः पुरुषः पुनलौके द्विविधः शरीरी पुरुषो बभूव समस्तश्च व्यस्तश्च। तत्र समस्तो नारायणो महाब्रह्मा व्यस्ताः सूक्ष्मशरीरिणोऽपरिसङ्ख प्रयाः। तदुक्तं मनुना। सोऽभिध्याय शरीरात् खात् सिमुक्षुविविधाः प्रजाः। अप एव ससर्जादौ तासु वीजमवासृजत् । तदण्डमभवढेमं सहस्रांशुसमप्रभम्। तस्मिन् जो स्वयं ब्रह्मा सर्वलोकपितामहः । आपो नारा इति प्रोक्ता आपो वै नरमूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः। यत् तत् कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्तते। तस्मिन्नण्डे स भगवानुषिखा परिवत्सरम्। स्वयमेवात्मनो ध्यानात् तदण्डमकरोद द्विधा । ताभ्यां स शकलाभ्याञ्च दिवं भूमिञ्च निर्ममे। मध्ये व्योम दिशश्चाष्टावपां स्थानञ्च शाश्वतम् । उद्ववत्मिनश्चैव मनः सदसदात्मकम्। मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् । महान्तमपि चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतृणि शनैः पञ्चेन्द्रियाणि च। तेषान्ववयवान् सूक्ष्मान पण्णामप्यमितौजसाम् । सनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे। यन्मूर्त्यवयवाः मूक्ष्मास्तस्येमान्याश्रयन्ति षट्। तस्माच्छरीरमित्याहुस्तस्य मूर्ति
For Private and Personal Use Only