________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम्।
१७५६ ऽथाङ्गिरसा एतदितिहासपुराणमभि लक्ष्यीकृत्यातपन् । - अभितप्तस्य तस्येतिहासपुराणस्य यशस्तेज इन्द्रियं वीर्यमभवदपाश्च रसः परिणमन् कषाय इवान्नमाद्यमजायत। तद् यदुदीचीभिर्नाडीभिरक्षरत् तत्तदादित्यं शिवमभितो मण्डलरूपेणाश्रयत् । तदेतदादित्यस्य मण्डले तमोगुणयोगात् परमकृष्णरूपं सद् वर्तत इति । ५। पञ्चामृतज्योतिर्म यमण्डलं तस्य स्वयम्भुवः परमात्मन आद्यस्यादित्यस्य। ___ एवं सदाशिवाख्यमहाभूतादीन् पञ्च ब्रह्मपुरुषान मृष्ट्वासौ स्वयम्भूः परमात्मा वृत्तौजाः सन् महानिर्वाणप्रलये यत्तमस्तत्तमोनुदोऽभूत् । तदुक्तं मनुना। ततः स्वयम्भूभगवान् अव्यक्तो व्यञ्जयनिदम्। महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुद इति। परमव्योम्नः शिवस्य दशभागादधरताचतुर्विंशतिभागमध्ये खेप्रकारेण मण्डलवानसावादिरादित्योऽनुत्तमतमो भुवौक उच्यते। ततस्तदधस्तात् पञ्चाशद्भागे सत्यञ्चानृतञ्च सत्यम् अभवदिति । तदाख्यातं वायवीये। कलाविद्या कालञ्च गुणपुरुषाविति । कलाविद्या माया न तु महामाया। कालं महाविष्णुम्। गुणं प्रधानाख्यं ब्रह्माणं पुरुषं क्षत्रज्ञ विष्णु कलाविद्याऽवासजत् । तद् यथा। तत्परमब्योनोऽधस्तात् परमव्योम्नि विद्याविद्यामयपञ्चब्रह्मपुरुषाहते सा क्रियाशक्तिरेषां पञ्चब्रह्मपुरुषाणां परमविद्या पुरुष त्रिधा कृखा ऋगयजुःसामवेदेषु प्रवेशयाश्चक्रे तथाथव्ववेदस्य शान्तिपौष्टिकाभिचारिकानंशान् क्रमेण ।' ततस्त्रयी बभूव । ततस्त्रयी चैकीभूय सदेकं बभूव। सच्चार्द्धन महाविष्णुः नाम कालो बभूवापरार्द्धन चिरभूव। स खलु चेततीति चेतनावान् स च प्रसादांशेन क्षेत्र आत्मा विष्णुर्बभूव स चानन्दतीत्यानन्द इत्यादौ सत् ततः चित् तत आनन्द इति सच्चिदानन्दो विष्णुः क्षेत्रज्ञः परमव्यान्नोऽधोऽले जातखात अधोक्षनः। चित्प्रसादो गुणांशस्तु प्रधानं नाम ब्रह्मा। एवमेतत् सत्यं नाम सत्। इति पञ्चब्रह्मपुरुषादिसत्यान्तं न चेतनाधातुपरमपुरुपादतिरिच्यते तास्थ्यादेष भुवलौको द्वितीयः पादः । इत्यस्मादधस्तात् पञ्चाशदङ्ग लपरव्योमास्मकश्चेतनाधातुस्तत् प्रधानं क्षत्रशाधिष्ठितं कालेन संक्षोभ्य सञ्चाल्य सङ्कोच्य परिणमयन् सत्त्वरजस्तमोगुणान पृथक् कृखानुपविश्य समसत्त्वरजस्तम इति लक्षणमव्यक्तं नाम बभूव । तच्च चेतनाधातुपुरुषानुप्रविष्टलाचेतनाधातुरुच्यते। क्षेत्रवाधिष्ठितखाच क्षेत्रज्ञ उच्यते। एतस्माच सप्ताङ्ग एकोनविंशतिमुखः षड़ धातुकः पुरुषो विश्वरूपो बभूव । यजःपुरुषीये प्राग् दर्शितम् ।
For Private and Personal Use Only