________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५८
चरक-संहिता। कतिधापुरुपीयं शारीरम् भुवोकरत्वपूपाकारो मधुकोपः पञ्चच्छिद्रवत्त्वात् । तस्य मरीचयस्तु पुत्राः पञ्च ब्रह्मपुरुषास्तत्र पञ्चदिश्या रश्मयो मधुक्षरणार्थ नाड्यः। तेषां पञ्चानां ब्रह्मपुरुषाणां यशस्तेज इन्द्रियवीर्यान्नानि खल्वेवं बभूवुः। तत्र। ये ते ऊो रश्मयस्ता एवास्योर्दा मधुनाड्यः। गुह्या एवादेशा विद्याद्याः शक्तयो मधुकय्यः। ब्रह्म व सदाशिवः पुष्पम् । ता गायत्रीस्था आपोऽमृता रसः । ता वात्र ते गुह्या आदेशभूता एतद्ब्रह्म सदाशिवमभिलक्ष्यीकृत्यातपन । अभितप्तस्य तस्य सदाशिवस्य यशस्तेन इन्द्रियं वीर्यमभवत् । अद्भाश्च रसः परिणमन्नम्ल इव रसोऽन्नमाद्यमजायत। तद य? मधुनाड़ीभिव हिरक्षरत् तत् तदादित्यं शिवमभितोऽश्रयत् मण्डलरूपेणाणोत् तद्वात्र तत् । यदेतद् आदित्यस्य मण्डलमध्ये समत्रिगुणयोगात् क्षोभत इव लक्ष्यते इति ।१। एवं येऽस्य पाश्चो रश्मयस्ता एवास्य प्राच्यो मधुक्षरणनाड्यः। ऋचो मधुकये ऋग्वेद एव पुष्पम्, ता गायत्रीस्थास्तेजोऽबनान्तर्गता आपोऽमृता रस एव पुष्पस्य रसः। ता एवैता ऋचो मधुकय्ये एनमृग्वेदमभि लक्ष्यीकृत्यातपन् । अभितप्तस्य तस्य ऋग्वेदस्य यशस्तेज इन्द्रियं वीर्यमभवत् । रसश्च परिणमन् लवण इवानमाद्यमजायत । तद् यत् प्राचीभिर्नाडीभिरक्षरत् तत्तदादित्यं शिवमभितो मण्डलरूपेणाश्रयत्। तदेतदादित्यस्य मण्डले रजोगुणयोगाल्लोहितं रूपं सद वर्त्तते । २। एवं येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधक्षरणनाड्यः। यष्येव मधुकश्यों यजर्वेद एव पुष्पम्, ता अमृता आपः । तान्येव यष्येत यजुर्वेदमभि लक्ष्यीकृत्यातपन्। अभितप्तस्य तस्य यजुर्वेदस्य यशस्तेज इन्द्रियं वीय्यमभवत् । रसश्चापां परिणमन् कटुक इवान्नमाद्यम् अजायत। तद् यदक्षिणमधुनाड़ीभिरक्षरत् तत्तदादित्यं शिवमभितो मण्डलरूपेणाश्रयत् । तदेव सत्वगुणयोगाच्छक्लं रूपं सत् एतदादित्यस्य मण्डले वत्तते इति । ३। अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुक्षरणनाड्यः । सामान्येव मधुकय्यः सामवेदः पुष्पम् । ता अमृता आपः। तान्येवैतानि सामानि, एतं सामवेदमभि लक्ष्यीकृत्यातपन् । अभितप्तस्य तस्य सामवेदस्य यशस्तेज इन्द्रियं वीर्यमभवदपाश्च रसः परिणमन् तिक्त रस इवानमाद्यम् अजायत । तद् यत् प्रतीचीभिर्नाडीभिरक्षरत् तत्तदादित्यं शिवमभितोऽश्रयत् । तदेवैतदादित्यस्य मण्डले तमोगुणबहुलरजोगुणयोगाच्छयामरूपं सद्वर्तते । ४ । अथ येऽस्योदश्चो रश्मयस्ता एवास्योदीच्यो मधुक्षरणनाड्यः। अथर्वाङ्गिरसा मधुकर्य इतिहासपुराणं पुष्पम् । ता अमृता आपः। ते वा एते
For Private and Personal Use Only