SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः शारीरस्थानम् । १७५७ ऋविद्या धातुप्रातिपदिकप्रत्ययागमादिरूपध्वनिरूपा बभूवेति, सा परमा विद्या कलां मायामविद्यामवासृजदित्युच्यते। तदाश्रयश्च परमव्योम पूर्वसुषिद्वाराद्वहिर गवेदो नामाभूदिति द्वितीयो ब्रह्मपुरुषः। ततः सुप्तिङन्तपदरूपध्वनिये जुविद्या वभूव। तद्विद्याश्रयः परमव्योमैव यजुवेंदो नाम दक्षिणसुषिद्वाराद्वहिर्बभूव, स तृतीयो ब्रह्मपुरुषः। ततः सङ्गीतभूतवाक्यरूपध्वनिः सामविद्या बभूव, तदाश्रयश्च परमव्योम पश्चिमसुषिद्वाराद्वहिः सामवेदो नाम चतुर्थों ब्रह्मपुरुषो बभूव । ततो वाक्यभूतध्वनिरूपाऽथ विद्या सेतिहासपुराणा बभूव। तदाश्रयश्च परमव्योमैवोत्तरसुषिद्वाराद्वहिः सेतिहासपुराणोऽथर्ववेदो बभूव, स पञ्चमो ब्रह्मपुरुष इति। इत्येते चखार ऋगवेदादयस्व विद्या ब्रह्मपुरुषा अविदैव विधिभिनियमकरणानियतिनामानः सह षड़ भिरङ्गरुच्यन्ते। एतत् साङ्गचतुर्वेदविद्या खविद्या तदाश्रयाश्चखारो वेदाश्च विज्ञानविपरीतविशानरूपा अविज्ञानमुच्यन्ते । तच्च त्यदेवाभिधीयते। इति कलाविद्या माया नियतिञ्चावासृजदित्युक्तम् । इत्येवं परमामृतरूपं तेजोऽबन्नमेलनेन मधुररसवदाभासमानं रसमाश्रिता गायत्री विद्याविद्यावाचो बभूव। तद्विद्याविद्यावागाश्रयाः पञ्च ब्रह्मपुरुषा ये, तेषां य ऊर्त सुषिद्वारपालः सदाशिवः सोऽस्य शिवस्य परमात्मन उदानो नाम प्राणः। स एव लोके त्रिगुणविशेषयोगादेष आकाशोऽभूदयश्च वायुरभूत्। पुरुषेऽपि यद्धदयं तस्योर्द्ध सुषिद्वारे उदानो नाम प्राणोऽभूदिति । पूच्वंसुषिद्वारपालोऽस्य प्राणः। लोके स एष आदित्यः। पुरुषे च स प्राणश्च चक्षश्च । दक्षिणसुषिद्वारपालो यजुर्वेदः शिवस्य व्यानो नाम प्राणः, स लोके चन्द्रमाः पुरुषे व्यानश्च श्रोत्रञ्चेति। अथ पश्चिमसुषिद्वारपालः सामवेदः शिवस्यापानो नाम प्राणः। स लोकेऽग्निः पुरुषेऽपानश्च वाक्चेति । अथोत्तरसुषिद्वारपालोऽथर्ववेदः शिवस्य समानो नाम प्राणः। लोके पर्जन्यः पुरुषे समानश्च मनश्चेति। अथैषामेवं वीर्यादीनि यथाभवंस्तद्यथाछान्दोग्योपनिषदि मधुब्राह्मणे। असौ वा आदित्यो देवमधु इत्यादिनोक्तं तत् प्रतिसंस्कृत्य लिख्यते। असौ परमात्मा शिव आदिभूतखादादित्यः खलु देवानां साध्यवसुरुद्रादित्यमरुद्गणानामुपजीवनपश्चामृतमयार्कमण्डलाकरामृतरूपरसाश्रय इत्यतो देवमधु । तस्य परमव्योन्नः परमात्मनः शिवस्य ऊोङ्ग शिरोग्रीवं दशाङ्गु लं द्यौरनुत्तमतमः स्वीक एव मधुकोषालम्बनतिथ्यग्भूतो वंशः। तस्मादधस्ताच्चतुर्विंशत्यङ्ग लिमितं परमव्योमैवान्तरीक्षं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy