SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTH १७५६ चरक-संहिता। । कतिधापुरुषीयं शारीरम् गायत्री नाम परमाशक्तिस्तेजोऽवनोपाहिता तस्यां गायत्रयां तदगायत्रीसमुत्थया क्रियाशक्तया नेजोऽवन्नांशेन क्षोभ्यमाणायां सञ्चाल्यमानायां सत्यां नद्गायत्रीस्थानि नजोऽयन्नानि परस्परं प्रवेश्यमानानि त्रिन्ति त्रिन्ति भूखा गायत्रयाः परमव्योमरूपायाः कियदंशे स्थितानि परममूक्ष्मध्वनिरूपाण्यभिव्यक्तानि भूखा किञ्चित् स्थूलो नादो ध्वनिरादो समुद्गतोऽभूत्। ततस्तया शक्तिसमुत्थयैव क्रियाशक्तया क्षोभ्यमाणान्नादात परिणमतस्तु बिन्दुरेकबिन्दुरूपो नादो विनिःसृतोऽभूत् । इति नादः सद्धिन्दुस्त्यत्। तच्च द्वयमनिरुक्तं निर्वचनरहितम्। ततस्तयैव क्रियाशक्तया क्षोभ्यमाणाद्विन्दोः परिणमत मिति ध्वनिरभूत्। तत सत। निरुक्तञ्चाकारोकारमकारैयोगाद्विन्दुनादाभ्यां युक्तम्। सा खल्वियं नादविन्दुयुक्ताकारादिवणत्रयध्वनिरूपा माहेश्वरी शिवसम्बन्धिनी महोदया शुद्धविद्या परमा विद्या ब्रह्मविद्या नाम जाता। सा च लिनः शिवस्य परमात्मनो वागीशाख्या शक्तियेतो वाचामीश्वरी। सा या पुनरकारादिवर्णस्वरूपेण मातृकेति विज़म्भते अभिव्यज्यत इति। तन्मातृकावर्ण सर्व त्यदेवानिरुक्तश्च निव्वेचनाभावात् । इत्येवमेषा शुद्धविद्या वागीश्वरी देवी लोके नारायणस्य दक्षिणपार्थाच्चतुम्मुखेन ब्रह्मणा सह मूर्तिमती सरस्वती नाम्नाविबभूव। तथा चाभिधीयते । पञ्चाशल्लिपिभिर्विभक्तमुखदो पन्मध्यवक्षःस्थलाम्, भास्वन्मौलिनिवद्धचन्द्रशकलामापीनवक्षोरुहाम्। मुद्रामक्षगुणं सुधाट्यकलसं विद्याञ्च हस्ताम्बुजैविभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥ इति । इत्येतत् परमविद्याद्यवनिपर्यन्तानां निरुक्तानामनिरुक्तानाञ्च निलयनश्चानिलयनश्च तस्यैव परमव्योम्नः परमात्मनश्चतुरशीतिभागकल्पनया त्रिधा भागः कल्पितः क्रियाशक्तया। तत्रोद्ध दशभागा मध्यं चतुर्विशतिर्भागा अधस्तात् पञ्चाशद्भागा इति । तत्रोद्ध दशभागं शिरोग्रीवमनुत्तमतमः स्खलौको निरुपाधिप्रसिद्धः केवलज्योतिः स्वरूपस्य परमामृतस्य गायत्रया निलयनमितरेषामनिलयनं क्लुप्तं प्रसिद्धं तद्दशभागतोऽधस्तादेतत् परमविद्याद्यवनिपर्यन्तानां निलयनं क्रियाशक्तया कल्पितमनिलयनश्च यस्य यदिति । तत्र परमव्योम्नि दशभागादधस्ताद हृदयरूपे पञ्चदेवसुषयो ये सन्ति तेषामूद्ध सुषिद्वाराद्वहिस्तत्परमविद्या विशिष्टं परमव्योम सदाशिवो नाम प्रसिद्धः प्रथमो ब्रह्मपुरुषः। तद्विशानं नाम सत् । ततः सा शुद्धविद्या क्रियाशक्तया क्षोभ्यमाणा तेजोऽबन्नविकारपरिणामेन तत् परमविद्याविपरीता लविद्या नाम कला माया विद्या तदकारादिवर्णसंयोगाद For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy