SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम् । १७५५ गुणपूरुषौ । मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् । त्रिगुणाततोऽव्यक्ताद् विविक्ताः स्युस्त्रयो गुणाः। सत्वं रजस्तमश्चेति यैाप्तमखिलं जगत् । गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशात् तु त्रिशूलिनः। अभवन् महदादीनि तत्त्वानि च यथाक्रमम् । तेभ्यः स्युरण्ड पिण्डानि ह्यसङ्ख्यानि शिवाशयेति ॥ व्याख्यानम् इदश्चानुव्याख्यातम्। योऽसौ स्वयः सुकृतमानन्दः परमव्योम परमात्मा शिवः स्वयम्भूब्रह्मयोनिः स ईश्वरस्तिमृभिर्ज्ञानशक्तिश्चिकीर्षाशक्तिर्नाम यदृच्छाशक्तिः क्रियाशक्तिरित्येताभिः शक्तिभिर्विशिष्टः शश्वच्छक्तिमान् ताभिः विश्व व्याप्यावतिष्ठते। कथमित्यत आह-ज्ञानशक्तिस्वित्यादि। तस्य ज्ञानशक्तिः सा या यत्कार्यमिदं निखिलं कत्तव्यं यावनिर्माणाख्यं प्रलयमस्मिन् सर्गे भविष्यत् तत् सर्वं तथा तत्प्रयोजनं यत् तथा तस्य यत् कारणं तथा तस्य यत् करणं तत् सर्वमेकदवाध्यवस्थतीत्यध्यवसायात्मकबुद्धिरूपा। न च सा पुनःपुनरिदं सव्वेमध्यवस्यति ; तस्मात् सा नित्या। नेयं गुणरूपा सत्त्वादिगुणयोगाभावात् । १ । अधास्य महेशस्य सा चिकीर्षाशक्तिर्या खल्विदभित्थं भवेदिदं नेत्थं भवेदित्येवमभिमानिका कार्यनियामिकैवेच्छाशक्तिरेकदैवैवं नियमयति न पुनःपुनरित्यतो नित्या नैषा गुणविशेषः सत्त्वादिगुणयोगाभावादिति । अथास्य महेशस्य सा क्रियाशक्तिर्या खलु धिया तया ज्ञानशक्तया यद् यथाऽभ्यवसितं तदेवेच्छया शक्तया यथा नियमितं तत् कार्यमखिलं क्षणात् कल्पयति निष्पादयतीति सङ्कल्परूपिणीति । क्षणात् कल्पयति न तु पुनःपुनस्तस्मात् नित्या। नेयं क्रियाख्यः पदार्थो रजोयोगाभावात् प्रवृत्तेः। रजो हि लोके प्रवत्तयति । यया परमया शक्तया गायत्रया खलु तद्गायत्रीशक्तिसमुत्थाना नित्या क्रियाशक्तिः प्रसवधर्मिणी सकलं जगत् प्रसूते सा परमाशक्तिः नित्यैवोच्यते । एवंप्रकारेण शक्तिसमायोगाच्छिवः परमात्मा शक्तिमानुच्यते न तु क्रियावान्। तस्मात् तच्छक्तिशक्तिमदीश्वरसमुत्थमिदं जगत् शाक्तञ्च शैवञ्चोच्यते। मातापितरो विना यथा पुत्रो न जायते तथा भवं भवानीच विना चराचरं न भवतीति। शिवश्च सव्वपामात्मनामात्मेति परमात्माभिधीयते शिवा चैव सर्वेषामात्मनामात्मा परमात्मनश्चात्मेति परमात्मा प्रकीर्तिता। निखिलस्य पिता महेश्वरो ज्ञयः, शिवा तु मातेति कीर्यते । तस्मात् स्थावरजङ्गमं सब जगच्छक्तिमयम्, यतः शिवायवनिपर्यन्तमिदं जगत् यया शक्तया ततं व्याप्तम्, नास्ति हि जगति किश्चिच्छक्तिहीनमिति। एवं तिसृभिः शक्तिभिर्यथा मूयते जगत् तदाह-ततः शिवाख्येत्यादि। या शिवाख्या For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy