SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १मे अध्यायः शारीरस्थानम् । १७५३ मनसि लये मनसश्च विज्ञान आत्मनि लये शुद्धसत्त्वरूपेण महत्तत्त्वेन चेतसा विशिष्ट आत्मा खल्वेनं रसं तुरीयं परमात्मानं शिवं लब्ध्वा नन्दी भवति । Acharya Shri Kailassagarsuri Gyanmandir अत्र जिज्ञासा | को वान्यात कः प्राण्यादानन्दो न स्याद् यदेष आकाश इति । रस एक आनन्दीभवत्यवर इति द्वयोर्मध्ये क एवान्यात् प्रीतः स्यात् कः प्रीणनः स्यादिति यह यस्मादेष रस आकाशः परमव्योम तत्र प्रीत्यसम्भवादानन्दो न स्यादिति । तत्रोत्तरम् । एप होवानन्दयतीति आनन्दहेतुत्वस्य प्रयोजकत्वस्य व्यपदेशादानन्दो रस एव परमात्मा परव्योम ब्रह्मेति व्यजानादित्युक्तमिति । इत्येष परमात्मा हिरण्मयकोष आत्मषट्क आदिपुरुषो ब्रह्मयोनित्वाद् ब्रह्म चेतनाधातुरेकः पुरुषस्त्रिपात् । तत्र शिरोग्रीवं दशाङ्गुलं स्वः पादः, तज्जातानां पञ्चब्रह्मपुरुष महाविष्णुक्षेत्र प्रधानानां चेतनाधानाञ्चानेकेषां पुरुषाणां निलयनं कष्टादधस्ताच्चतु विंशत्यङ्गलं परव्योम को द्वितीयः पादः । ततोऽधस्तात् पञ्चाशदङ्ग लपरव्योम्नि तेषां मेलनेनकीभूतः संहतरूपश्चेतनाधातुव्यक्तनामापि पुरुषसंज्ञकः स्मृतः इति । सर्व्वभूतमयस्तृतीयः पादो भूलकः । ननु के तेऽनेके चेतनाधातुकाः पुरुषाः कथमुदपद्यन्तेति ? उच्यते । उक्त छान्द (ग्योपनिषदि । यग्दर्शित सेयं देवनैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । तासां त्रिवृतं त्रितमेकैकां करवाणीति । इति सा तदसदेव सब्रह्मशक्तिरियं तेजोऽवनोपाहिता गायत्रीदेवता हन्त खल्विमास्तेजोsaनाख्यास्तिस्रो देवता अनेन परव्योम्ना परमात्मना जीवेन पुरुषेणाहम् अनुप्रविश्य सव्वषां नामरूपे व्याकरवाणीतैक्षत । कथमिति चेत् ? तदोच्यते । तासां तेजोऽवन्नाख्यानां तिसृणां देवतानामेकैकां देवतां ताभिस्तिसृभिर्देवताभिः मिलिताभिन्य नादं शतां तां यात्मिकां नात्मिकाञ्च करवाणीति चैक्षत आलोचयत् । ततस्तथा चकार । यथा चकार तदुक्तं तैत्तिरीयोपनिषदि । उ सोऽकामयत बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा इदं सर्व्वसृजत यदिदं किञ्च । तत्सृष्ट्रा तदेवानुप्राविशत्। तदनुप्रविश्य सच्च त्यच्चाभवत् । निरुक्तश्चानिरुक्तञ्च निलयनञ्चानिलयनञ्च विज्ञानचाविज्ञानञ्च सत्यञ्चानृतञ्च । सत्यमभवत् । यदिदं किञ्च तत् सत्यम् इत्याचक्षत इति । उभो य आत्मा स्वयः सुकृतं रस आकाश आनन्द इत्येतैर्नामभिर्य उक्तः परमव्योमपुरुषः शिवः शिवया परमया शक्त्यैकीभूतः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy