SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७५२ चरक-संहिता। । कतिधापुरुषायं शारारम् गायत्रीति चतुष्कं सदजायत तस्मादसत एव सतः शक्तिब्रह्मतः। इत्येतत् तु यत् सत् गायत्रयाख्यं तदात्मानं स्वयमकुरुतेत्यतः स्वयम्भूर्नामेषः ; सुष्ठ अयः शुभावहो विधियस्मात् स स्वयः, तत् स्वयं तस्मात् स्वयत्वात् सुकृतं पुण्यमुच्यते। अत एव शिव इत्याख्यायते। यथैनं परमात्मानमकुरुत तत् सत् छान्दोग्येऽप्युक्तम्। गायत्री वा इदं सर्व भूतं यदिदं किश्च । वाग्वै गायत्री । वाग्वै सवं भूतं गायति च त्रायते चेति। तद् व्याख्यातं कूम्मरूपिणा भगवता विष्णुना नारदादिभिः पृष्टेन। तद् यथा-या सा माहेश्वरी मूर्तिीनरूपातिलालसा। अनन्या निष्कले तत्त्वे संस्थिता तु स्वतेजसा। व्योमसंज्ञा पराकाष्ठा सेयं हेमवती सती। शिवा सव्वंगताऽनन्ता गुणातीता सुनिष्कला। एकानक विभागस्था ज्ञानरूपातिलालसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला। सेयं करोति सकलं तस्याः काय्यमिदं जगत्। चतस्रः शक्तयो देव्या स्वरूपत्वेन निम्मिताः। शान्तिविद्या प्रतिष्ठा च निवृत्तिरिति ताः स्मृताः। चतु! हस्ततो देवः प्रोच्यते परमेश्वरः ॥ इति । एवं परमव्योमरूपं चतुव्यूह परमात्मानं शिवं कृखा यथा वभूव तदुक्तमुपमन्युना। तच्छिवस्य शिवायाश्च साम्यञ्चैतत् स्वभावतः। यथा शिवस्तथा देवी यथा देवी तथा शिवः। नानयोरन्तरं विद्याचन्द्रचन्द्रिकयोयथा। चन्द्रो न खलु भात्येष यथा चन्द्रिकया विना। न भाति विद्यमानोऽपि तथा शक्त्या विना शिवः। शक्तो यया शिवो नित्यं शक्तो मुक्तौ च देहिनाम्। आधा सैका परा शक्तिश्चिन्मयी शिवसंश्रया। यामाहुरखिलस्तस्य तैस्तैरनुगुणगुणैः। समानधम्मेिणीमेव शिवस्य परमात्मनः। शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता। ततः परिस्फुरत्यादौ सर्ग तैलतिलादिवत् ॥ इति । इत्येवं हिरण्यवदाभासमानया गायत्रया सहकीभावादेष परमव्योमपरमात्मा स्वयः सुकृतं शिवो हिरण्मयकोषः पुरुषः। गायत्री ह्यस्य ज्योतीरूपेण भाति तथास्य हृदये परव्योमरूपे पश्च देवमृषयः सन्ति । पूर्वदक्षिणपश्चिमोत्तरोद्ध देशे तदभ्यन्तरे हृदये चात्मा भूखा वत्तते ॥ तदुक्तं मुण्डकोपनिपदि । हिरण्मये परे कोषे विरजं ब्रह्म निष्कलम् । तच्छभ्र ज्योतिषां ज्योतिस्तद् यदात्मविदो विदुरिति। आपो हि रसस्तद्वत्त्वाद गायत्री च रसस्तदेकीभावाच शिवोऽपि रसस्तदाह-यद्वैतत् सुकृतं रसो वै स इत्यादि। यदेव सुकृताख्य एष आत्मा स्वयः पुरुषः स गायत्रयाख्यरसवत्त्वाद्रस उच्यते। रसत्वेन किं करोति, तदाह-रसं हवायमित्यादि । लोके योगी सुषुप्तश्चायं पुरुषः समाधो सुषप्तो च सर्वेषां पृथिव्यादीनां For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy