________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
शारीरस्थानम् |
प्रथमोऽध्यायः। अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ गाधरः-अथ खलु हेतुलिङ्गोषधज्ञानं स्वस्थातुरपरायणमायुर्वेदं धातुवषम्यनित्तिधातुसाम्यरक्षणार्थमुक्तवान्। तत्र धातुवैषम्यज्ञानार्थ निदानस्थानं धातुवैषम्यनित्तिधातुसाम्यरक्षणार्थ विमानस्थानं रसादिविमानशानार्थमुक्त्वा चिकित्साधिकरणशरीरीयतावद्भावज्ञानस्य तत्र हेतुखात् तावत शरीरीयभावज्ञानार्थमधुना शारीरस्थानमारभते। तत्र वेदाधिकरणतया पूर्वाध्याये पुरुष उक्तः सत्त्वमात्मेत्यादिना। तस्य पुरुषस्य सर्वभावप्रतिष्ठानस्य शारीरमानसोभयव्याधिचिकित्साविषयलेन शारीरेष भावेष माधान्यात् प्रथमतस्तद्भदादिशानहेतु कतिधापुरुषीयं शारीरमध्यायमार
चक्रपाणिः-निदानस्थाने ज्ञातहेत्यादिना तथा विमाने प्रतीतरसदोषमानेन कर्त्तव्यचिकित्साधित करणं शरीरं ज्ञातव्यं भवति । यतोऽप्रतिपन्नेऽशेषविशेषतः शरीरे न शरीरविज्ञानाधीना चिकित्सा साध्वी भवति, अतः शरीरं कारणोत्पत्तिस्थितिवृद्धयादिविशेषैः प्रतिपादयितु शारीरं स्थानम् उच्यते। अत्रापि चात्यन्तदःखोपरममोक्षकारणचिकित्सोपयुक्तपुरुषभेदादिप्रतिपादकतया प्रधानाधेने
For Private and Personal Use Only