________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४२
चरक-संहिता। रोगभिपगजितीयं विमानम् दोषादीनान्तु भावानां सव्वेषामेव हेतुना । मानात् समस्तमानानि निरुक्तानि विभागशः ॥ १२७॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते रोगभिषग
जितीयं विमानं नामाष्टमोऽध्यायः॥८॥ मदितु न शक्यते इति । अध्यायं प्रशस्य स्थानार्थमाह। दोषार्थमाह-दोषादीनामित्यादि ॥१२७॥
अध्यायं समापयति-अग्निवेशेत्यादि। विमानस्थानग्रन्थसया त्रयोविंशत्यधिकं श्लोकानां सहस्रम् । । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे रोगभिषगजितीय
विमानजल्पाख्याष्टमी शाखा ॥८॥
शब्दसन्धिः। दोपादीनामित्यादिना विमानस्थानार्थसंग्रहं करोति । हेतुमदित्युपपत्तिमत् यथा भवति, तथा दोषादिमानादित्यर्थः, निरुक्तानीति निरह्योक्तानि। निरुक्तिश्व-दोषादयो विशेषेण मीयत्त एभिरिति विमानानिः॥ १२७ ॥
हति चरकचतुराननश्रीमच्चक्रपाणिदत्तप्रणीतायुर्वेददीपिकायां चरकतात्पर्यटीकायां
रोगभिषगजितीयविमानव्याख्या नाम अष्टमोऽध्यायः ॥ ८ ॥
समाप्तमिदं विमानस्थानम् ।
॥ श्रीः ॥
इत्यत्र हेतुमत तथा समस्तमानानीत्यत्र सम्यगविमानानी चक्रसम्मतः पाठः।
For Private and Personal Use Only