________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८मभध्यायः । विमानस्थानम् ।
१७४१ पड़ नानि च पञ्चाशद वादमार्गपदानि च। पदानि दश चान्यानि कारणादीनि तत्त्वतः ॥ सम्प्रश्नश्च परीक्षादेवको वमनादिषु। भिषगजितीये रोगाणामध्याये सम्प्रकीर्तितः ॥ १२६॥ बहुविधमिदमुक्तमर्थजातं बहुविधवाक्यविचित्रमर्थकान्तम् । बहुविधशुभशब्दसन्धियुक्तं बहुविधवादनिषदनं परेषाम् ॥ इममिति बहुविधहेतुसंश्रयां विजज्ञिवान् परमतवादसूदनीम्। निलीयते परवचनावमईने न शक्यते परवचनैश्च मर्दितुम् ॥
परीक्षेतेत्यादिनाचार्यपरीक्षाकारणम् । अध्यापने कृतबुद्धिरित्यादिनाध्यापनविध्यन्तर्गतं शिष्याणां परीक्षाकारणम्। तत्रायमध्ययनविधिरित्यादिना अध्येयस्याध्ययनस्य विधिः । भावे कृत् । अथाध्यापनविधिरित्यादिनादौ शिष्यपरीक्षावचनानन्तरमेवं विधमध्ययाथिनमित्यादिनाध्यापन विधिः। सम्भाषाविधिमत ऊद्ध मित्यादिना सम्भाषाविधिः। इमानि तु खल्वित्यादिना षडु.. नानि पञ्चाशत्, चतुश्चत्वारिंशद्वादमागेपदानि। कारणादीनि दशपदानि तत्त्वनः। वमनादिष परीक्ष्यादेवकः संप्रश्नश्च ॥१२६ ॥
गङ्गाधरः-अध्यायं प्रशंसति। बहुविधमित्यादि। इदमेतदध्यायातया यबहुविधमर्थजातमुक्तं तदबहुविधवाक्यविचित्रम् । अर्थकान्तमर्थतो मनोरमम् । बहुविधशुभशब्दसन्धियुक्तं परेषां बहुविधवादनिसदनं किं फलमित्यत आहइमामित्यादि। इमामेतदध्यायार्थस्याध्ययनतो जातां मतिं बहुविधहेतुसंश्रयां परमतवादसूदनों विजशिवान् भिषक् परवचनावमद्देने निलीयते। परवचनैश्च
अमल इवादित्यः” इत्यादि शास्त्रपरीक्षाकारणम्। आचार्थपरीक्षाकारणम् "एवंविधो ह्याचार्य" इत्यादि ; शिष्यपरीक्षाकारणन्तु "अध्याप्यमध्यापयन् ह्याचार्यः" इत्यादि। अध्येयमध्येतन्यम्, तस्य विधिरध्ययनविधिरेव ॥ १२६ ॥
चक्रपाणिः- इदमुक्तमर्थजातमिति लक्षणाचार्याशिष्यपरीक्षारूपमर्थजातमुक्तम् । अर्थकान्तमिति यथासम्बद्धार्थतादिना गुणेन कमनीयार्थं भवति तथोक्तमित्यर्थः। शब्दस्य वाक्ययोजनं
For Private and Personal Use Only