SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । रोगभिषगजितीयं विमानम १७४० चरक-संहिता। रोगभिपराजितीयं विमानम् गण्डीरावाकपुष्पीवृश्चिकालीवयःस्थातिविषामूलानि च, हरिद्राशृङ्गवेरमूलकलशनकन्दाः, लोध्रमदनसप्तपर्णनिम्बार्कपुष्पाणि च, देवदावगुरु-सरल-शल्लकी-जिङ्गिन्यसन-हिङ्ग- निर्यासाश्च, तेजस्विनीवराङ्गङ्गदीशोभाञ्जनवृहतीकण्टकारिकावगिति । शिरोविरेचनं सप्तविधं फलपत्रमूलकन्दपुष्पनि-सत्वगाश्रयभेदात् । लवणकटुतिक्तकषायाणि चेन्द्रियोपशयानि तथापराण्यनुक्तान्यपि द्रध्याणि यथायोगविहितानि शिरोविरेचनार्थमुपदिशन्ति इति ॥ १२५ ॥ तत्र श्लोकाः। लक्षणाचार्यशिष्याणां परीक्षाकारणञ्च यत् । अध्येयाध्यापनविधिः सम्भाषाविधिरेव च ॥ श्वेतार्कः। श्वेता स्वेतापराजिता। ज्योतिष्मती घोषकः। गण्डीरपुष्पी वृहत्समटः। दृश्चिकाली विछातिः। हरिद्राशृङ्गवेरमूलकलसुनानां मूलवत् कन्दाश्चेति पुनरुक्तम्। लोध्रादीनां पुष्पाणि देवदावादीनां निर्यासश्च, तेजस्विनी लतापुटकी इत्यादीनां वक्। इति फलपत्रमूलकन्दपुष्पनिय्यासखगाश्रयभेदतः सप्तविधं शिरोविरेचनं लवणादीनि चखारि न मधुराम्लानि इन्द्रियोपशयानि ॥ १२५ ॥ गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इत्यादि। लक्षणं तन्त्रं, बुद्धिमानित्यादिना तन्त्रपरीक्षाकारणं चिह्नम्। ततोऽनन्तरमाचार्य उदाहार्यम् । सुमुखादयः पर्णासभेदाः। गण्डीरपुष्पी शमठः। वयःस्था ब्राह्मी। वराङ्गं गुड़त्वक् । इन्द्रियोपशयानीत्यनेन यानि लवणादीनि नेन्द्रियोपघातकानि, तान्येव शिरोविरचने योज्यानि। तथापराणीति मधुराम्लकषायाणि शिरोविरेचने यौगिकानि ॥ १२५ ॥ . चक्रपाणिः-संग्रहे लक्षणाचार्यशिष्याणामिति शास्त्राचार्यशिष्याणां परीक्षा। लक्षणं हि शास्त्रमुच्यते। कारणञ्च यदिति शास्त्रादिपरीक्षाकारणञ्च यदित्यर्थः, --"एतदेवम्भूतं शास्त्रम् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy