________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१७३६ अतः परमनुवासनद्रव्याण्यनुव्याख्यास्यन्त। तच्चानुवासनन्तु स्नेह एव। स्नेहस्तु द्विविधः, स्थावरात्मको जङ्गमात्मकश्च । तत्र स्थावरस्नेहस्तैलमतैलञ्च। तदद्वयं तैलमेव कृत्वोपदेक्ष्यते सव्वं तैलप्राधान्यात्। जङ्गमात्मकस्तु वसा मजा सपिरिति । तेषां तैलवसामजसर्षिषाश्च यथापूर्व श्रेष्ठम्। वातश्लेष्म. विकारेष्वनुवासनीयेषु, यथोत्तरं पित्तविकारेषु, सर्व एव वा सर्वेष्वपि च योगमायान्ति संस्कारविधिविशेषादिति ॥ १२४ ॥
शिरोविरेचनद्रव्याणि पुनरपामार्गपिप्पलीमरिचविडङ्गशिग्रु-शिरीषकुस्तुम्बुरु-विल्वाजमोदावार्ताकीपृथ्वीकैलाहरेणुकाफलानि च, सुरससुमुखकुठेरकगण्डीरककालमालकपर्णासत्वकफणिज्झकहरिद्राशृङ्गवेरमूलकलसुनतारीसर्षपपत्राणि च, अर्कालर्ककुष्ठ-नागदन्तीवचापामार्ग-श्वेता-ज्योतिष्मती-गवादी
। गङ्गाधरः-अथ क्रमिकबादनुवासनस्य यानि द्रव्याणि योगमृच्छन्ति तान्याह-अतः परमित्यादि। तैलं तिलप्रभवरनेहः। अतैलं सर्षपादिप्रभवः स्नेहः। तत्र तैलातैले स्नेहद्वये उपदेष्टव्ये सर्व तैलमतैलञ्च तैलप्राधान्यात तैलमेव कृखोपदेश्यते। सर्व स्पष्टम् ॥ १२४ ॥
गङ्गाधरः-पारिशेष्यात् शिरोविरेचनस्य यानि द्रव्याणि योगमृच्छन्ति तान्याह-शिरोविरेचनेत्यादि। गण्डीरः समठः। तर्कारी जयन्ती। अलर्फः
चक्रपाणिः-क्रमप्राप्तमनुवासनद्रव्यमाह-अतः परमित्यादि। तत्र तैलमिति तैलभूतं सर्षपस्नेहादि । तैलप्राधान्यादिति स्थावरस्नेहेषु तिलतैलस्यैव प्राधान्यात्। एतेन तैले यो विधिः, स सार्षपादौ बोद्धव्यः, 'तैल शब्देन तु सार्षपादीनामिह ग्रहणम्। तिलभवस्नेहस्य प्राधान्य. प्रख्यापनार्थ 'तैल'शब्डेन सार्पपादीनां ग्रहणं भवत्येव। यदुक्तं सुश्रुते-"निष्पत्तेस्तद्गुणत्वाचा तैलस्वमितरेप्वपि" इति ॥ १२४ ॥
चक्रपाणिः-पारिशेष्याच्छिरोविरेचनान्याह-शिरोविरेचनेत्यादि। फलानि चेति 'च'कारण - तमुक्त द्रव्यमङ्गोपयोगञ्च दर्शयति । तेन शिग्रोवक्ष्यमाणे त्वगुपयोगश्च भवति। एषमन्यत्रापि
For Private and Personal Use Only