________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७३८
चरक-संहिता। रोगभिजितीय विमानम् मन्येत, तत् तद् दद्याद्। वर्गमपि वर्गणोपसंसृजेदेकमेकेनानेकेन वा युक्तिं प्रमाणीकृत्य। प्रचरणमिव भिक्षुकस्य वीजमिव च कर्षकस्य सूत्रं बुद्धिमतामल्पमपि चानल्पज्ञानाय भवति। तस्माद बुद्धिमतामूहापोहवितर्काः, मन्दबुद्धस्तु यथोक्तानुगमनमेव श्रेयः। यथोक्तं हि मार्गमनुगच्छन् भिषक संसाधयति कार्य्यमनतिमहत्त्वात् + अनतिहस्वत्वादुदाहरणस्येति ॥१२३॥ यौगिकं न भवति, तदवजनमपरिसङ्ख्यानामन्येषाश्च यौगिकानामुपादानं वर्गान्तरस्य तत्तद्रोगयौगिकत्वे वर्गान्तरसंसर्जनश्च विधातुमाह-एभ्य इत्यादि। बुद्धिमतां सूत्रानुसारेणोहस्तर्कः अपोहस्तकणैकं निश्चित्यान्यस्य वजनमाभ्यां वितर्क इदं युक्तमिदमयुक्तमिति तत्त्वातत्त्वबुद्धिः। एते श्रेय इत्यस्य वचनविपरिणामेन श्रेयांस इत्यर्थः । मन्दबुद्धस्तु यथोक्तानुगमनमेव श्रेय इत्यन्वयः । कुतस्ते श्रेयांसस्तच्च श्रेय इत्यत आह-यथोक्तं हीत्यादि। हि यस्मात् यथोक्तं मागं भिषगनुगच्छन् उदाहरणस्यानतिमहत्त्वादनतिहस्वखात् कार्य संसाधयति ।। १२३॥ माल्पबुद्धीनां तदूहापोहकरणे सामर्थ्यमिति दर्शयति । युक्तिं प्रमाणीकृत्येति उहं प्रमाणीकृत्येत्यर्थः । प्रचरणं भिक्षामूलं तण्डुलादि पात्रस्थम्। ननु मन्दबुद्धः कथं यथोक्तानुगमनम् ? यथोक्तम् भयौगिकाहेन बुद्धिमन्तः प्रपद्यन्ते, तत्रैव तन्मन्दधीः प्रयुञ्जानो न कथमनर्थमावहेदित्याहयथोक्तं होत्यादि। अनतिमहत्त्वाद् वा निपातयतीत्यनेन, मन्दबुद्भिर्यथोक्तमाचरति अहं विना में चातिव्यापद् भवतीति दर्शयति । यतः शास्त्रे हि यो विधियंत्रोक्तः, स प्रायो यौगिक एव भवति, तत्र तत्रापि शरीरादिभेदेन यौगिकः, तत्रापि स्तोकमात्रेण यौगिक इत्यर्थः । अनतिहस्व स्वाददाहरणस्येति शास्त्रे उदाहरणस्य विधेरनतिसङ्ख पादित्यर्थः । एतेन स्तोकं रोगसाधनोदाहरणं स्थात्, उहामेव वा भवतु, तदा मन्दबुद्धिः साक्षादुदाहरणविषयाज्ञानात् स्वयम् ऊहाक्षमत्वाच्च न रोगशान्तिलक्षणं कार्य कत्तु क्षमः स्यात् । यतो हुपदाहरणानि बहूनि । तेन तैरेवोदाहरणात्मकप्रयोगैस्तत्साध्यत्वेनोक्तव्याधीन साधयतीति युनम्। इमौ चावापोद्धारौ गणेषु मध्ये गणोक्तद्रव्ये प्रायो ज्ञेयौ। यदुक्तं सुश्रुते-"गणोक्तमपि यद् द्रव्यं भवेद व्याधावयौगिकम्। तद्धरेत् प्रक्षिपेत् तु यन्मन्येद् यौगिकन्तु तद” इति। ये तु संयोगमहिम्ना कार्यकारकाः प्रयोगा अगस्स्यहरीतक्यादयः, तेघावापोद्धारौ न कर्त्तव्यो। एवमेव चार्थमभिप्रेत्योक्तं सुश्रुते-"एष चागमसिद्धत्वात् तथंध फलदर्शनात् । मन्त्रवत् संप्रयोक्तव्यो न मीमांस्यः कथञ्चन" ॥ १२३ ॥
* भगतिमहत्वाद्वा निपातयतीति चक्रष्टतः पाठः ।
For Private and Personal Use Only