SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १७३७ सर्वशो हि प्रणिहिताः सर्वरोगेषु जानता। सर्वान् रोगान् नियछन्ति येभ्य आस्थापनं हितम् ॥ . येषां येषां प्रशान्त्यर्थं ये ये न परिकीर्तिताः। द्रव्यवर्गा विकाराणां तेषां ते परिकोपकाः॥ इत्येते षड़ास्थापनस्कन्धा रसेनानुविभज्य व्याख्याता भवन्ति ॥ १२२ ॥ एभ्यो भिषग् बुद्धिमान् परिसङ्ख्यातमपि यद् द्रव्यम् अयोगिकं मन्येत, तत्तदपकर्षयेच्च। यद् यच्चानुक्तमपि च यौगिक यौगिकान् सर्वरोगहरास्थापनयोगोपगान् । ननु कुनः सान्वयौगिकांस्तान् विद्यादित्यत आह-सव्व शो हीत्यादि। येभ्यो रोगेभ्य आस्थापनं हितं हि यस्मात् तान् सर्वान् रोगान् जानता वैदेन सर्वरोगेष सव्वशः सर्वे सर्वे एते षड़वर्गाः प्रणिहिता नियच्छन्ति, तस्मात् तान् षड्वर्गानास्थापनम् अभिप्रेत्य सार्चयौगिकान विद्यात् । मधरादिस्कन्धादोनां वातादिविकारेषु यद्विधानमुक्तं तदितरेष्वविधिमाह-येषां येषामित्यादि। इत्येते पड़ित्युपसंहारः ॥ १२२॥ गङ्गाधरः-अथ परिसङ्ख्यातमधुरादिवर्गाणां मध्ये यद् द्रव्यं यद्रोगविशेषे यथोक्तदोषसम्बन्धे सति यौगिकानित्यर्थः। एतदेव विवृणोति-सर्वशो हीत्यादि। सर्वश इति समस्तवर्गणार्द्धवर्गेण यथालाभेन वा। इदानीं सर्ववर्गाणां सर्वास्थापनसाध्यरोगेषु यौगिकत्वं यदुक्तम्, तत्र ज्वरे कटुकवर्गेणास्थापनं पित्तकरत्वात् ज्वरं वर्द्धयति, कफमेव हरति । तेन दोषविशेषेणास्थापनविशेषार्थ सर्चगणानां यौगिकत्वमेतदुक्तम्, किन्तु सामान्येन सर्वास्थापनरोगहितत्वम् , दोपविशेषेषु तु तत्राननुगुणवर्गस्य प्रयोगस्य निषेध एवेति दर्शयन्नाह-येपामित्यादि। येपामिति वातादिविकाराणामुक्तानामिह । तत्र वात हरस्कन्धः न कफप्रशान्त्यर्थमुक्तः, तेन कफवर्धकः। एवमम्लादिवर्गष्वपि ज्ञेयम्। किंवा सार्वयौगिकानित्यनेनोक्तानां वर्गाणां समासव्यासयोगेन सकलास्थापनसाध्यरोगहरत्वमुच्यते, न प्रत्येकम् । प्रत्येकन्तु वर्गाणां साध्यत्वेन अनुक्तरोगकर्मत्वमुच्यते 'तेषाम्' इत्यादिना ॥ १२२ ॥ चक्रपाणिः-सम्प्रत्युक्तवर्गेषु व्याध्यादिपालोचनया यौगिकत्वमपेक्ष्य यौगिकप्रक्षेपमयौगिकोदरणच दर्शयमाहे-तेभ्य इत्यादि। 'बुद्धिमान्' इति पदेन, बुद्रिमतैव प्रक्षेपोदारी गणे कर्तव्यो, For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy