SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। रोगभिषाजितोयं विमानम् माठीकवरकतुङ्गाजकर्णाश्वकर्णस्फूर्जकविभीतककुम्भीक-पुष्करवीजविसमृणालतालखजूरतरुणी-8-नाम् । एवंविधानाच्चान्येषां कषायवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि च खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रनाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं वस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद दद्यात्। शीतन्तु मधुसपिामुपसंसृज्य वित्तविकारिणे विधिवत् दद्यात्। इात कषायस्कन्धः ॥ १२२॥ तत्र श्लोकाः। षड़ वर्गाः परिसङ्ख्याता य एते रसभेदतः । आस्थापनमभिप्रेत्य तान् विद्यात् सार्बयोगकान् ॥ स्वनामख्यातः। शालः शालकाष्ठम् । धवः । सो धूनकः। भू| भूजग्रन्थिः । असनः कृष्णासनः । खरपुष्पा खरमञ्जरी अपामार्ग इति ख्यातः । शमी गाइकाटा। माठीको देवदारुः। वरको वोरधान्यम् । तुङ्गः पुन्नागटक्षः । अजकर्णोऽसनभेदः। अश्वको गृहश्छालकाष्ठम्। स्फूर्जकस्तिन्दुकः । कुम्भीकः कटफलः । तरुणी घृतकुमारी। एषामेवं विधानामन्येषाञ्च कषायवर्गपरिसङ्ख्यातानाम् । इति कपायस्कन्ध आस्थापनवस्तिः ॥१२२ ॥ गङ्गाधरः-उपसंहरति-तत्र श्लोका इत्यादि। पड़ वर्गा इति। सार्च माठीको देवदारुः। अजकर्णः शालभेदः। कुम्भी कुम्भीक इति ख्याता। विसं करहाटः । मृणालं मृणालनाडिका। तालखज्जू रतरूणामिति तालखजूं रवृक्षाणामित्यर्थः । तत्र च स्कन्धेषु यद् द्रव्यं स्कन्धद्वये पठ्यते, तडुभययुक्तत्वेन उभयत्रापि योगीति ज्ञेयम् ॥ ११९-१२२ ॥ चक्रपाणिः-साम्यौगिकानिति सप्वास्थापनसाध्येषु रोगेषु वातव्याधिज्वरगुल्मादिषु * तरुणीत्यत्र तरुः इति पठ्यते चक्रेण । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy