________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. १७४४
चरक-संहिता। । कतिधापुरुषीयं शारीरम् कतिधा पुरुषो धीमन् धातुभेदेन भिद्यते। पुरुषः कारणं कस्मात् प्रभवः पुरुषस्य कः॥ किमज्ञो ज्ञः स नित्यः किं किमनित्यो निदर्शितः। प्रकृतिः का विकाराः के किं लिङ्ग पुरुषस्य च ॥ निष्क्रियश्च स्वतन्त्रश्च वशिनं सर्वगं विभुम् । वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञ साक्षिणं तथा ॥ निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम् । स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते ॥ वशी यद्यसुखैः करमाद् भावैराक्रम्यते बलात् । सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः॥ न पश्यति विभुः कस्माच्छैल कुड्यतिरस्कृतम् ।
क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः॥ अथात इत्यादि। अथात इत्येतयोः पूर्वोक्तं व्याख्यानं शेयम् । कतिधापुरुषीयमिति। एतदध्यायादौ कतिधा पुरुषो धीमनित्यादिवाक्यस्थकतिधा पुरुष इत्यर्थमधिकृत्य कृतोऽध्याय इति, तं कतिधापुरुषीयमध्यायम् । शारीरमिति। शरीरं पञ्चमहाभूतविकारसमुदायात्मक चेतनाधिष्ठानभूतमुक्तं तस्य इदमिति शारीरं, शरीरवृत्तं यावद्वस्तु तदेवाधीयते यत्रेत्यध्यायखेन व्यपदिश्यते। अत्र षष्ठी आधाराधेयतासम्बन्धे समवायसम्बन्धे वा। आत्मादिसव्वंतत्त्वसमवायोऽपि पुरुष इति सव्वषां परस्परं तत्त्वानां समवायात् ॥१॥ कतिधापुरुषीयोऽध्यायोऽभिधीयते। कतिधेति कतिप्रकारः। पुरुष इत्यनेन चाविशेषण पुरुषशब्दाभिधेयोऽर्थोऽभिधीयते। यतः खादयश्चेतनापष्टाः इत्यादिना, तथा चतुर्विशतिकभेदभिन्नश्च कर्मपुरुष एव शरीरी वाच्यः । चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः इत्यनेनात्मैव शरीररहितः पुरुषशब्दार्थवेन वाच्यः। पुरुषधारणाद्वातुः। तेन, धातुभेदेनेति पुरुषधारणार्थभेदेन । धीमन्निति विशेषेण य एव धीमान् स एव पुरुषभेदादिकमिमं वक्ष्यभाणं सुसूक्ष्मं वक्तु समर्थ इति दर्शयति । पुरुषः कारणं कस्मादिति कस्माद्वतोः पुरुषः संसारे प्रधानं स्थायिकारणम् इत्यर्थः। प्रभवत्यादिति प्रभवः कारणम्। योनिश्चिति जातिषु । स; इति परपुरुष
For Private and Personal Use Only