________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७३४
चरक-संहिता। रोगभिजितीयं विमानम् वर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भंद्यानि चाणशी भेदयित्वा गोमूत्रेण साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं वस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद दद्यात् । इति कटुकस्कन्धः ॥ १२० ॥
चन्दननलद-कृतमालनक्तमाल-निम्बतुम्बुरु-कुटजहरिद्रादारुहरिद्रामुस्त-मू किराततिक्तक-कटुरोहिणी-त्रायमाणाकरीराणाम्, करवीरकेवुककठिल्लकवृषमधुपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकारवल्लकाकोडुम्बरिकासुषव्यतिविषा-पटोल-कूणकपाठागुडूची-वेत्रायवेतसविकङ्कत-वकुल- सोमवल्कसप्तपर्णसुमनोऽर्कावल्गुजवरा-8-तगरागुरुहीवरीशीराणाम्। एवंविधानाञ्चान्येषां
विधानाश्चान्येषां कटुकवर्गपरिसङ्ख्यातानाम् अष्टगुणेन क्वाथत्वात् गोमूत्रेण साधयिखा चतुर्भागशिष्टं काथं मधुतैलसैन्धवोपहितं सुखोष्णं वस्तिं श्लेष्मविकारिणे दद्यात्। इति कटुकस्कन्ध आस्थापनवस्तिः ।। १२० ।।
गङ्गाधरः क्रमिकखात् तिक्तकस्कन्धास्थापनद्रव्याण्याह-चन्दनेत्यादि। चन्दनं रक्तचन्दनम् । नलदमुशीरं जटामांसीत्यन्ये । कृतमालः शोनालुः। नक्तमालो नाटाकरञ्चः। तुम्बुरु स्वनामख्यातं तदभावे धन्याकम् । करीरो मरुजद्रमः। केवकः के उ इति लोके। कठिल्लकः कारवेल्वः । मधुपर्णी लतापुटकी गुडूची वा। कर्कोटकः काकरोल इति लोके। वार्ताकुः स्वनामख्यातः। कर्कशः कम्पिल्लः। काकमाची स्वनामख्याता। कारवेल्ल इति वृहत्कारवेलः । काकोडम्बरिका कोठोडम्बरः । सुषवी वन्यकारवेल्वः । अतिविषा आतइष इति लोके। पटोलं दीर्घपटोलम्। कूणकं पटोलम्। पाठा अम्बष्ठा । वेतसः स्वनामा। विकतः वइच इति लोके । वकुलं स्वनाम। सोमवल्कः श्वेतखदिरः। सुमनो मालती। अर्कः। अवल्गुजः सोमराजी । वरा त्रिफला। एषामेवंविधानाच
रोमका रुमानदीभवा। (कटुकवग) तेजस्विनी तेजोवती। किलिमं देवदारु। तिक्तवर्गे कर्वशः
* वचति पाठान्तरम् ।
For Private and Personal Use Only