________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
१७३३
८म अध्यायः विमानस्थानम् ।
सैन्धवसौवर्चलकालविरुपाक्यकुप्यवालकैलमौलकसामुद्ररोमकौद्भिदौषरपाटेयकपांशुजान्येवंप्रकाराणि चान्यानि लवणवर्गपरिसंख्यातानि । एतान्यम्लोपहितान्युष्णोदकोपहितानि वा स्नेहवन्ति सुखोष्णं वस्तिं वातविकारिणे विधिज्ञो विधिवद् दद्यात् । इति लवणरकन्धः ॥ ११६ ॥
पिप लीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदाई कविडङ्गकुस्तुम्बुरुपीलुतेजखिन्येलाकुष्ठभल्लातकास्थिहिङ्गुद्रु किलिममूलकसपणाणाम्, लसुनकरञ्जशिग्रु शिग्र कखरपुष्पभूस्तृण -सुमुखसुरसार्जककाण्डीरकालमालकपर्णासनवकफणिजझकनारमूत्रपित्तानाश्च। एवंविधानाञ्चान्येषां कटुकचतुर्भागशिष्टमुपसंस्कृत्य यथावद् यथायोग्यं तैलादुरपहितं सुखोष्णं वस्तिं वातविकारिणे दद्यात् । इत्यम्लस्कन्ध आस्थापनवस्तिः ॥११८ ।।
गङ्गाधरः----अथ क्रमिकखाल्लवणस्कन्धास्थापनद्रव्याण्याह-सैन्धवेत्यादि। सैन्धवादीनि लवणानि देशविशेषे प्रसिद्धानि एतानि एवं विधान्यन्यानि लवणवर्गपरिसंख्यातानि अम्लोपहितानि उष्णोदकोपहितानि वा स्नेहवन्ति घृततैलादियुक्तानि सुखोष्णं तद्रवरूपं वस्तिं वातविकारिणे दद्यात्। इति लवणस्कन्ध आस्थापनवस्तिः ॥११९ ॥ - गङ्गाधरः-अथ क्रमिकखात् कटुकस्कन्धास्थापनद्रव्याण्याह-पिप्पलीत्यादि। शृङ्गवेरं शुष्कं शुण्ठीति यावत्, आईकस्य पुनः पाठात्। तेजस्विनी तेजिनी। द्रकिलिमो देवदारुः । मूलकं सर्पपं सर्पपद्वयं शिग्रुत्रयम् । खरपुष्पं खराशिनी अपामार्गो वा। भूस्तृणं गन्धतृणम् । सुमुखः पर्णासभदः । सुरसस्तुलसीभेदः। अर्जकः श्वेततुलसी। काण्डीरः मञ्जिष्ठा । कालमालः कृष्णतुलसी। पर्णासः क्षुद्रपर्णासः। शवको राजक्षवकः। फणिज्झको गन्धपर्णासः। क्षारो दग्धभस्मकृतः क्षारः। मूत्रं गवादिमूत्रम् । पित्तं मत्स्यादिपित्तम् । एषामेवंचक्रपाणिः-कूप्यादयो लवणभेदा देशान्तरप्रसिद्धाः। तेन देशान्तरीयात् तदर्था ज्ञातव्याः। * पाक्येत्यनन्तरम् आनूप इत्यधिकः पाठः ।
For Private and Personal Use Only