SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। रोगभिपराजितीयं विमानम् आम्राम्रातकलकुचकरमईवृनाग्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गकरीरका-8-मलक + तिन्तिडीकशीतकदन्तशठरावतककोशाम्रधन्वनानां फलान, पत्राणि चाश्मन्तकचाङ्गरीणां चतुविधानाञ्च अम्लिकानां द्वयोश्च कोलयोश्चामशुष्कयो योश्च शुष्काम्लिकयोम्यारण्ययोः। पासवद्रव्याणि च सुरासौवीरकतुषोदकमैरेय-मेदकमदिरामधुशक्त-सीधुदधिमण्डोदश्विद्धान्याग्लादीनि च । एषामेवंविधानाञ्चान्येषामम्लवर्गपरिसङ्ख्यातानाम् अषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा द्रवः स्थितानि + अवसिच्य साधयित्वोपसंस्कृत्य यथावत् तैलवसा-8-मज्जलवणफाणितोपहितं सुखोष्णं वस्तिं वातविकारिणे विधिज्ञो विधिवटु दद्यात् । इत्यम्लस्कन्धः ॥११८ गङ्गाधरः-अथ क्रमिकबादम्लस्कन्धास्थापनद्रव्याण्याह-आम्रत्यादि। वृक्षाम्लं किञ्चिन्मघरमांसलफलं तिन्तिड़ीकम् । करीरो मरुजद्रुमः । तिन्तिड़ीकमम्लाधिकं तिन्तिड़ीकम् । शीतकं चालित्रफलम् । दन्तशठो जम्बीरः। ऐरावतकः अम्लनागरङ्गः । कोशाम्रः उड़िआम्रः। धन्वनः धन्वनक्षः । एषां फलानि। अश्मान्तकानां चाङ्गेरीणां पत्राणि चतुर्विधानामम्लिकानाश्च पत्राणि द्वयोश्च कोलयोः शुष्कयो योश्च शुष्काम्लिकयोम्यारण्ययोः पत्राणि। आसवद्रव्याणि च मुरादीनि यान्युक्तानि। एषामेवं विधानामन्येषाञ्चाम्लवर्गपरिसंख्यातानामौषधद्रव्याणां मध्ये च्छेद्यानि खण्डशश्छेदयिता भेद्यान्यणुशो भेदयिला सुरादिषु द्रवेषु स्थितानि तैः सुरादिभिः साधयिखा पक्त्वा चक्रपाणिः- अम्लस्कन्धे नन्दीतकः कर्परनन्दी। शीतकोऽम्बुलोठकः। ऐरावतो नागरङ्गम् । अम्लिका कन्दप्रधाना कामरूपे प्रसिद्धा, अम्लिकाभेद एवेत्याहुः। द्वयोश्चेत्यादि। दवैः स्थिराणीति द्ववमजनात् स्थिरमूतानीत्यर्थः ॥ ११८ ॥ * करीरक इत्यत्र गण्डीर इत्यन्यः पाठः । । इतः परं नन्दीतक इत्यधिकः पाठः केषुचिद् ग्रन्थेषु दृश्यते। र स्थिराणीति चक्रः । ___ इतः परं मस्तु इत्यधिकः पाठः क्वचित् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy