________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२६
चरक संहिता |
[ रोगभिषग्जितीयं विमानम
अन्यांश्च भक्ष्यप्रकाराननुविधाय यथाहं वमनार्हाय दद्याद्विधिमनम् । इति कल्पसंग्रहो वमनद्रव्याणाम् । कल्पस्त्येषां विस्तरेणोत्तरकालमुपदेच्यते ॥ ११४ ॥
विरेचनद्रव्याणि तु श्यामात्रिवृच्चतुरङ्ग, लतिल्वकमहावृनसप्तलाशङ्खिनीदन्तीद्रवन्तीनां नीरमूलत्वक्पत्रपुष्प फलानि यथायोगं तैस्तैः चीरमूलत्वकपत्रपुष्पफलैर्विक्लिप्साविलिप्तैः, अज - गन्धाश्व- गन्धाजशृङ्गी- नीरिणी-नीलिनी-नीतक - कषायैश्च, प्रकीर्थोदकी मसूर विदलाकम्पिल्व कविडङ्ग- गवाक्षीकषायैश्च, पीलुपियालमृद्वीका - काश्मर्य्यपरुषबदर दाडिमामलक - हरीतकीमोदकान् वा अन्यांश्च भक्ष्यविशेषपूपादिप्रकारान् अनुविधाय । कल्पसंग्रहः वर्त्तक्रियादिरूपाणां कल्पानां संग्रहः संक्षेपः । उत्तरकालं कल्पस्थाने ।। ११४ ॥
गङ्गाधरः वमनानन्तर्याद्विरेचनद्रव्याणि यानि उपयोगं यान्ति तान्याह -- विरेचनेत्यादि । श्यामा श्याममूला त्रिवृत् । त्रिवृत् रक्तमूला त्रिवृत् । चतुरङ्गुलः शोनालुः । तिल्वको लोध्रः । महावृक्षः स्नुही । सप्तला शङ्खिनीभेदः । शङ्खिनी शङ्खपुष्पी । दन्ती नागदन्ती । द्रवन्ती क्षुद्रदन्ती । एषां क्षीरमूलादीनि यथायोगं तैस्तैरजगन्धादिकपायैखिदादीनां क्षीरमूलादिषु विलिप्ताविक्तिर्यस्य यत् किप्तं यच्चाक्लितं कल्पनेनायुक्तं तैरुपसंस्कृत्य वतिक्रियादीन् विविधान् योगान् यथाह मनुविधाय विरेचनार्हाय विरेचनं दद्यादिति पिण्डार्थः । तत्र विक्लिप्तानाह अजगन्धेत्यादि । अजगन्धा यमानी । अश्वगन्धा स्वनामख्याता । अजशृङ्गी मेषशृङ्गी । क्षीरिणी स्वनाम - ख्यातवृक्षः । नीलिनी नीलवुहा । क्लीतकं यष्टीमधु । एषां यथालाभं कषायैः । प्रकीर्या नाटाकरञ्जः । उदकीय करञ्जः । ममूरविदला श्याममूला त्रित् । कम्पिल्कः कमलागुड़ीति लोके । विडङ्गं क्रिमिशत्रः । गवाक्षी गोरक्षकर्कटी । एषां कषायैर्यथालाभम् | पीलुपियालेत्यादि । वृवीरः श्वेतपुनर्नवा | पुनर्नवा उलो बहुवारः । गोपी शारिवा । वर्त्तिक्रिया वर्त्तिरूपदीर्घभक्ष्यकरणम् । तत्र 'आरग्वधादि' 'वाद' पृथग्वर्गकरणं प्रायः समानगुणतां विच्छेदपाठेन दर्शयितुं कृतम् । कल्पनं कल्पः प्रयोग इत्यर्थः । उत्तरकालमिति कल्पस्थाने ॥ ११४ ॥
चक्रपाणि: - विक्लिप्तिर्द्रव्यान्तरसंयोगः । भविक्लिप्तिः केवलप्रयोगः । तेन विलिप्ताषिक्कितैः
For Private and Personal Use Only