SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दम अध्यायः ] विमानस्थानम् । १७२७ सीधुसुरा विभीतकवृश्चीर पुनर्नवाविदारिगन्धादिकषायैश्च, सौवीरक- तुषोदक- मैरेय मेदकमदिरामधुमधूलकधान्याम्ल कुबलबदरखज्जू र कर्कन्धुभिश्च दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनाञ्च नीरमूत्रैर्यथालाभं यथेष्टं वाप्युसंस्कृत्य वर्त्तिक्रियाचूर्णावलेहस्नेह कषाय-मांसरसयूषकाम्बलिकयवागूनीरोपधेयान् मोदकानन्यांश्च भचयविकारान् विविधांश्च योगाननुविधाय यथाहं विरेचनाय दद्याद् विरेचनम् । इति कल्पसंग्रहो विरेचनद्रव्याणाम् । कल्पस्त्येषां विस्तरेणोत्तरकालमुपदेदयते ॥ ११५ ॥ आस्थापनेषु तु भूयिष्ठकल्पानि द्रव्याणि यानि योगमुपयान्ति तेषु तेष्ववस्थान्तरेष्वातुराणां तानि द्रव्याणि नामतो विस्तरेणोपदिश्यमानान्यपरिसङ्ख्यं यानि भवन्त्यतिबहुत्वात्, इष्टश्चानतिसंक्षेपविस्तरोपदेशस्तन्त्रे, तत्रैवैष्टञ्च केवलं ज्ञानम्, तस्माद्रसत एव तान्यनुव्याख्यास्यामः ॥ ११६ ॥ रक्ता । विदारिगन्धादिर्दशकः । एषां कपायैर्यथालाभम् । सीधुसुरेत्यादि । कुवलं दरम् । इति विरेचनद्रव्याणां कल्पसंग्रहः । उत्तरकालं कल्पस्थाने ।।११५ ।। गङ्गाधरः - - अथ क्रमिकत्वादास्थापनस्य यानि द्रव्याण्युपयोगमृच्छन्ति तान्याह - आस्थापनेष्वित्यादि स्पष्टम् । ननु नामतो विस्तरेणोपदेशेऽपरिसंख्येयानि भवन्त्तास्थापनद्रव्याणि तेन किमित्यत आह - इष्टश्चेत्यादि । अनतिसंक्षेपविस्तरोपदेशो हि सर्व्वाभीष्टः । नामतो विस्तरेणास्थापनद्रव्याणां यौगिकानामुपदेशेऽतिविस्तरोपदेशः स्यादिति भावः । नन्वतिविस्तरेण किं भयम्, शानार्थी हुपदेशः स चानतिसंक्षेपविस्तरतश्चेत्तदा कथं कृत्स्नं ज्ञानं स्यादित्यत इति संयुक्तायुक्तैरित्यर्थः । क्षीरिणी दुग्धिका । क्लीतकं यष्टीमधु । मसूरविदला श्यामलता । प्रथमन्तु श्यामा श्याममूला त्रिवृदेवोक्ता ॥ ११५ ॥ चक्रपाणिः -- भूयिष्ठ कल्पानीति बहुप्रयोगान्यभिप्रायप्रयोज्यानि च । इष्टश्वानतिसंक्षेपविस्तरोपदेश इत्यनतिसङ्घ पविस्तरतः शास्त्रे कथनमिष्टम्, इष्टञ्च केवलं ज्ञानमनतिसंक्षेप विस्ताराभिधामेऽपि यटुक्तम्- “तस्यापि यथा सामान्येनावस्थाज्ञानं भवति, तदपीष्टम् " ग्रन्थकर्त्तुः श्रोतुश्च For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy