________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
१७२५
विमानस्थानम् । एलाहरेणुप्रियङ्ग -पृथ्वीकाकुस्तुम्बुरुतगरनलदहीबेरतालीशोशीरकषायैश्च, इक्षुकाण्डेक्ष्विक्षुबालिकादर्भपोटगलतगरकालकृत - कषायैश्च, सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहानुद्रसहाकषायैश्च, शाल्मलीशाल्मलकभद्रपण्यैरापर्यपोदिकोदाल-धन्वन-राजादनोपचित्रागोपी-शृङ्गाटिका-कषायैश्च, पिप्पली-पिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षप-फाणित-क्षीर-क्षारलवणोदकैश्च, यथालाभं यथेष्टं वाप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान् मोदकान् सदापुष्पी रक्तार्कः। एला स्थूलैला। हरेणः रेणका। प्रियङ्गुः स्वनामा । पृथ्वीका सूक्ष्मैला । कुस्तुम्बुरुः स्वनामख्यातस्तदभावे धनीयकम् । तगरं तगरपादिकम् । नलदं जटामांसी। हीबेरं वालकम् । तालीशं तालीशपत्रम् । उशीरं वीरणमूलम्। एषां कपायैश्च । इक्षुकाण्डं काण्डेक्षुर्नटा इति लोके । इक्षुवालिका खागड़िका। दर्भ उलयामूलम् । पोटगलो होगलः । तगरं तगरपादुका। कालः कृष्णागुरु। एतैः कृतकषायैः। एषां यथालाभं कषायैश्च । सुमना मालतीपुष्पम् । हरिद्रा । दारुहरिद्रा । दृश्चीरः श्वेतपुनर्नवा। पुनर्नवा रक्तपुनर्नवा। महासहा माषपर्णी । क्षद्रसहा मुद्गपर्णी। एषां यथालाभं कपायैश्च। शाल्मली शाल्मलवृक्षः। भद्रपर्णी गाम्भारी। ऐरापर्णी हस्तिपर्णी हस्तिकर्णपलाश इति लोके । उपोदिका कलम्बी। उद्दालः काञ्चनः । धन्वनः धाउनीक्षः । राजादनं पियालभेदः। उपचित्रा भाण्डी दन्ती वा। गोपी श्यामालता। शृङ्गाटिका शिङ्गड़ा। एषां कषायैश्च । पिप्पल्यादीनामुदकैश्च यथालाभं यथेष्टं यथाभिलषितं वा एतैः कषायैः फलजीमूतकादीनां फलपुष्पपत्राणि कुटजकृतवेधनयोः फलानि च उपसंस्कृत्य भावयिला पक्ता वा वर्तिक्रियांचूर्ण वा अवलेहं वा स्नेहं वा घृतादिकं कषायं वा मांसरसं वा यवागू वा यूषं वा काम्बलिकं वा क्षीरोपधेयं वा शतावरी देया। विदुलो वेतसः, शणपुष्पी घन्टारवा, सदापुप्पी रक्तार्कः। कालङ्कृतो कासमईः । पोटगलो होगलः। सुषवी कारवेल्लकः। सुमना जाती। सौमनस्यायनी जातिकलिका जातिकोषो वा। शाल्मलिको रोहड़कः, स्वल्पशाल्मलिर्वा। भद्रपर्णी भादाली। एलापर्णी रास्ना। - कालङ्कत इति चक्रः ।
For Private and Personal Use Only