________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२४
चरक-संहिता। (रोगभिषजितीयं विमानम् - यानि तु खलु वमनादिषु भेषजद्रव्याण्युपयोगं गच्छन्ति तान्यनुव्याख्यास्यामः। तद् यथा—फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामागवपुष्पपत्राणि, आरग्वध-वृक्षक-मदन-स्वादुकण्टकपाठा पाटला-शार्ङ्गष्टा:मूर्खासप्तपर्ण-नक्तमालपिचुमईपटोल-सुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपिशिग्र मूलकषायैश्च, मधुकमधूककोविदारकर्बुदार-नीप-निचुलविम्बीशणपुष्पीप्रत्यकपुष्पी-सदापुष्पीकषायैश्च।
गङ्गाधरः- कानि च वमनादीनां भेजद्रव्याणि उपयोगं गच्छन्तीति प्रश्नस्योत्तरमाह--यानि वित्यादि। फलेत्यादि । फलं मदनफलम् । जीमूतक घोषकभेदः। इक्ष्वाकुस्तिक्तालाबुः। धामागवः पीतघोषकभेदो वामकखान्नेहापामार्गः। कुटजः स्वनामप्रसिद्धः। कृतवेधनं जोस्निका.श्वेतघोषकस्तेषां फलानि। फलं मदनं । जीमूतकः क्षुद्रघोषकः । इक्ष्वाकुस्तिक्तालाबुः । धामार्गवो घोषक: पीत एषां पुष्पपत्राणि । एतेन फलजीमूतकेक्ष्वाकुधामार्गवाणां फलपुष्पपत्राणि, कुटजकृतवेधनयोः फलानि। आरगवधः शोनालुः । वृक्षकः कुटजः । मदनं मदनक्षः। खादुकण्टकः वैकङ्कतः। पाठा आकनादिः। पाटला पाटलिमूलम् । शाङ्गष्टा रक्तगुञ्जा। मूर्वा मूचिमुखी। सप्तपर्णः सप्तच्छदः। नक्तमालो नाटाकरञ्जः। पिचुमो निम्बः। पटोलम् । सुषवी पर्णासभेदः । गुडूची च्छिन्नरूहा। चित्रकं स्वनामख्यातम् । सोमवल्कः श्वेतखदिरः। शतावरी शतमूली। द्वीपि व्याघ्री। शिग्रुः शोभाञ्जनस्तस्य मूलम् । एषां कषायैः तानि। मधुकं यष्टीमधु । मधूकं गुड़पुष्पम् । कोविदारः श्वेतकाञ्चनः। कव्वु दारो रक्तकाञ्चनः। नीपः कदम्बः। निचुल इज्जलः। विम्बी विम्बफलम् ओष्ठोपमाफलमिति यावत् । शणपुप्पी घण्टारवा। प्रत्यक पुष्पी अपामार्गः। ऽनुक्तोऽपि ज्ञायते । तेन शास्त्रान्तरे गुरुप्याधिप्रतीकारनिष्टायामध्यवसायं कुर्यादिति साक्षान्न कृतः । एतमेव गुरुव्याधिप्रतीकारं लघुव्याधिव्युत्पादकवचनभङ्ग यन्तरेणाह-सन्ति हीत्यादि । सम्यगट.व. स्येदिति, उत्सर्गलघु परित्यज्यापवादगुरुमुपक्रम्यतयाध्यवरयेत्। "बलवन्तमुपद्रवम्" इत्यादिना हि दुर्बलं परित्यज्य बलवञ्चिकित्सामभिधास्यति ॥ ११३ ॥
चक्रपाणिः-सम्प्रति कानि च वमनादिषु भेषजव्याणि संयोगं गच्छन्तीत्यस्योत्तर-- यानीत्यादि। शाष्टिा गुजा। सोमवल्कः खदिरः। द्वीपी कण्टकारी, द्वीपिशररिति पाठे
For Private and Personal Use Only