SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १७२३ यत्र खलु वमनादीनां प्रवृत्तिर्यत्र च निवृत्तिस्तद्वग्रासतः सिद्धिषु उत्तरकालमुपदेच्यते सर्वम् । प्रवृत्तिनिवृत्तिलक्षणसंयोगे खलु गुरुलाघवं संप्रधा- सम्यगध्यवस्येदन्यतरनिष्ठायाम् । सन्ति हि व्याधयः शास्त्रेषत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः । तस्माद् गुरुलाघवं सम्प्रधार्य सम्यगध्यवस्येदित्युक्तम् ॥ ११३ तन्न यौक्तिकं तच्छास्त्रज्ञानेन हि संशोधनकाले यदि कारणादीनां ज्ञानं न फलति तदा कथं संशोधयेदिति। तस्मात् कर्माणि कृता प्रतिपाद्यप्रतिपत्तिः प्रतिपत्तव्योऽर्थस्तस्य ज्ञानं तदिह प्रसङ्गात् आयुर्वेदै यो विकारो यथा प्रतिपत्तव्यस्तस्य व्याधेस्तथानुष्ठानस्य ज्ञान प्रतिपत्तिज्ञानमिति किंप्रयोजना परीक्षेति प्रश्नस्योत्तरम्। अथ क च वमनादीनां प्रवृत्तिः क च निवृत्तिरिति प्रश्नद्वयस्योत्तरमाह-यत्र खल्वित्यादि। सिद्धिषु सिद्धिस्थाने। इति क च वमनादीनां प्रवृत्तिः क च नित्तिरिति प्रश्नद्वयस्योत्तरम् ।। अथ प्रवृत्तिनिवृत्तिसंयोगेन किं नैष्ठिकमिति प्रश्नस्य उत्तरमाह--प्रवृत्तीत्यादि। एकस्मिन् पुरुष वमनादीनां प्रवृत्तिलक्षणं वमनादिसाध्यरोगो निवर्त्तते वर्तते चापरो वमनानहरोगोऽतस्तु वमनादीनां तत्र प्रवृत्तिनिवृत्त्योर्लक्षणयोः संयोगो मिश्रस्तदा तत्र गुरुलाघवं प्रवृत्तिलक्षणस्य किं गौरवं निवृत्तिलक्षणस्य लाघवम्, किं निवृत्तिलक्षणस्य गौरवं प्रवृत्तिलक्षणस्य . लाघव मिति सम्प्रधाऱ्या प्रवृत्तिलक्षणस्य गौरवं नित्तिलक्षणस्य लाघवं यदि सम्प्रधाय्यते तदा, यदि वा निवृत्तिलक्षणस्य गौरवं प्रवृत्तिलक्षणस्य लाघवं सम्प्रधाय्यते तदा, तदन्यतरनिष्ठायां गुरुलक्षणस्यैकस्य निश्चये सम्यग् लघुलक्षणाही प्रवृत्तिमुत्सृज्य गुरुलक्षणाही प्रत्तिमवधाय्य व्यवस्येत् । ननु लघुलक्षणाही प्रवृत्तिं यदुत्सृजेत् तत् कथं विज्ञ यं तत आह–सन्ति हीत्यादि। हि यस्मात् शास्त्रेषु व्याधय उपक्रमं प्रति उत्सर्गापवादैस्त्यागोपादानै निर्दिष्टाः । सम्पधायेत्यादिवाक्याथ द्रढ़यति तस्मादित्यादि ॥ ११३॥ परीक्षायास्त्वित्यादि । प्रतिपत्तिशब्दार्थ विभजते- यथेत्यादि। प्रतिपत्तव्य इत्यनुष्टानेन योजयितव्यः। 'क्व च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः' इत्यस्योत्तरमतिदेशेनाह-यत्र स्वित्यादि । 'प्रवृत्तिनिवृत्तिलक्षणसंयोगे किं नैष्टिकम्' इत्यस्योत्तरम्-प्रवृत्तीत्यादि । अध्यवस्येदित्यध्यवसायं कुर्यादि. त्यर्थः। अन्यतरनिष्ठायाम् इत्यन्यतररूपावस्थायाम् । अत्र गुरुलाघवे ज्ञाते गुरुप्रतिक्रियानिश्चयो. For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy