________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२२
चरक-संहिता। रोगभिषजितीय विमानम् उपायस्तु भिषगादीनां सौष्ठवमभिसन्धानञ्च सम्यक । तस्य लक्षणं भिषगादीनां यथोक्तगुणसम्पद्भिर्देशकालप्रमाणसात्म्यक्रियादिभिश्च सिद्धिकारणैः सम्यगुपपादितस्यौषधस्यावचारणमिति ॥ ११२॥
एवमेते दश परीक्ष्यविशेषाः पृथक पृथक परीक्षितव्या भवन्ति। परीक्षायास्तु खलु प्रयोजनं प्रतिपत्तिज्ञानम्। प्रतिपत्तिर्नाम यस्तु विकारो यथा प्रतिपत्तव्यस्तस्य तथानुष्ठानज्ञानम् ।
गङ्गाधरः-अथ परीक्ष्यविशेषश्चोषायो यथा परीक्षितव्यस्तथा दर्शयति--- उपायस्वित्यादि । भिषगादीनां कारणादीनां चतुर्णाम् । तस्येत्यादि । भिषगादीनां भिषगौषधातुरपरिचारकाणां यथोक्तगुणसम्पद्भिः खुड्डाकचतुष्पादोक्तानां गुणानां सम्पद्भिः। आदिपदेन प्रकृत्यादिपरीक्षणानां ग्रहणम् । सम्यगुपपादितस्य सम्यगुपकल्पितस्योपयुज्यमानस्य चौषधस्यावचारणमुपसेवनम्। तेन चानुमीयते भिषगादीनां सौष्ठवम भिसन्धानञ्चेति ॥११२॥
गङ्गाधरः-अथ कश्चात्र परीक्ष्यविशेषः कथञ्च परीक्षितव्य इति प्रश्नद्वयस्य उत्तरार्थ कृतां, तस्य यो यः परीक्ष्यविशेषो यथा यथा परीक्षितव्यः स तथा तथा व्याख्यास्यते इति प्रतिज्ञां, समाप्तुमुपसंहरति- एवमित्यादि। एते दश कारणादिरूपा भिपगादयो दश परीक्ष्यविशेषाः, इति कश्चात्र परीक्ष्यविशेष इति प्रश्नस्योत्तरसमाप्तिवचनम् । पृथक पृथक् परीक्षितव्या इति कथञ्च परीक्षितव्या इति प्रश्नस्योत्तरवचनसमाप्तिवचनमिति । ०। अथ किंप्रयोजना च परीक्षेति प्रशस्योत्तरमाह- परीक्षायारिखत्यादि। प्रतिपत्तिज्ञानमिति । ननुका प्रतिपत्तिरित्यत आह ---प्रतिपत्तिर्नामेत्यादि । प्रतिपद्यतेऽनेनेति प्रतिपत्तिः शास्त्र, तदिह विवक्ष्यते-- य इत्यादि। यो विकारो यथा प्रतिपत्तव्यः शास्त्रतो वा प्रत्यक्षानुमानाभ्यां विज्ञातव्यस्तस्य विकारस्य तथानुष्ठानं तदुपयोगिभिरुपक्रमादिभिरुपाचरणं ज्ञायतेऽनेनेति तथानुष्ठानज्ञानं शास्त्रं, तच्छास्त्रस्य ज्ञान प्रयोजनं संशोधनं कामयमाना भिषजः परीक्ष्य परीक्षायामिति याख्यानं
चक्रपाणिः-परिशिष्टमुपायमाह-उपाय इत्यादि। यथोक्तगुणसम्पद्भिरित्यनेन सौष्ठवमुक्तम् ॥ ११२॥
चक्रपाणिः-दशेत्यादिना तु सम्यगभिविधानं आते। किम्प्रयोजना परीभेत्यस्योत्तरम्
For Private and Personal Use Only