________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्।
१७१७ तत्र हेमन्ते ह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नं भवत्यतिशीतवाताध्मातमतिदारुणीभूतमवरुद्धदोषञ्च छ । भेषजं पुनः संशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्य्यत्वम् आपद्यते। तस्मात् तयोः योगे संशोधनमयोगायोपपद्यते शरीरमपि च वातोपद्रवाय ॥ १०६ ॥ ___ ग्रीष्मे पुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नं भवत्युषणकृतौषधानां गुणान्तरकल्पफाश्च भवन्तीति यस्मात् तस्माद्वमनादीनां निवृत्तिरितरेषु विधीयते इति ॥१०५॥ - गङ्गाधरः-ननु कथं हेमन्तादयो दुःखतमा विकल्पकाश्च शरीरौषधानां भवन्तीत्यत आह-तत्रेत्यादि। तेषु हेमन्तग्रीष्मवर्षाख्येषु त्रिपु ऋतुषु मध्ये हेमन्ते पौषमाधरूपे हि यस्मात् शरीरमतिमात्रशीतोपहतखात् असुखोपपन्नम् अतिशीतवाताध्मातमतिमात्रशीतवाताभ्यां युतम् अतिदारुणीभूतमतिरौक्ष्यककेशादिमत्सया कठिनीभूतम् वरुद्धदोषम् अवरुद्धवातकफादिकं भवति इत्यतिमात्रशीतोपहतसादिकं शरीरविकल्पकखोपदर्शनं तैश्चासुखोपपन्नत्वं दुःखतमलोपदर्शनम् । औषधानां विकल्पकत्वं दर्शयति-भेषजं पुनरित्यादि। संशोधनार्थमित्यनेन संशमनार्थमपि भेषजम् अतिशीतोपहतं मन्दवीर्य स्यादिति सूच्यते । न तु तत् प्रतिषिध्यते। ननु मन्दवीयत्वे खौषधानां का हानिरित्यत आहतस्मादित्यादि। तस्मात् शरीरस्य शीतवाताध्मातखातिदारुणीभूतलावरुद्धदोषखादौषधस्य शीतोपहतत्वेन मन्दवीर्यखापन्नवाच्च तयोः प्राणिनां शरीरोषधयोः संयोगे उपसेवनेन संयोगे संशोधनं वमनादिक्रिया अयोगाय अप्रवृत्तये उपपद्यते। नन्वयोगे का हानिरित्यत आह-शरीरमपि चेत्यादि। वातोपद्रवो वातजनित उपद्रवः ॥१०६॥
गङ्गाधरः-हैमन्तिकसंशोधने दोषं दर्शयिता प्रैष्मिकसंशोधने दोष दर्शयति-ग्रीष्मे पुनरित्यादि। भृशोष्णखोपहतखात्। शरीरं ग्रीष्मात्मका• शरीरौषधानामिति यदात्ययिकरवेनावश्यकर्त्तव्या भवन्ति वमनादयः, तदोषधस्य कृत्रिमगुणोपधानेन यथावक्ष्यमाणेन, तथा शरीरस्य च विकरुपका भवन्ति ॥ १०५ ॥
चक्रपाणिः-यथा हेमन्तादिषु दुःखमत्त्वं भवति, तदाह-तत्र हेमन्त इत्यादि। आवद्ध* भावदोषमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only