________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१६
चरक संहिता |
| रोग भिषगजितीयं विमानम्
विभज्यन्तै ऋतवः । तत्र साधारणलक्षणेष्वृतुषु वमनादीनां प्रवृत्तिर्विधीयते निवृत्तिरितरेषु च । साधारणलचणा हि मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्ति अविकल्पकाश्च शरीरौषधानाम् । इतरे पुनरत्यर्थशीतोष्णवर्षत्वाद दुःखतमाश्च भवन्ति विकल्पकाश्च शरीरौषधानाम् ॥ १०५ ॥
संवत्सरातिरिक्तोऽस्तीति चन्न तेषु षट्सु ऋतुषु न संशोधनविधिरेव चर्य्याविधिनिषेधो सम्भवतः । ननु किं हेमन्त शिशिरादितया विभक्तेषु संशोधनविधिनिषेधौ न सम्भवत इत्यत आह-तत्रेत्यादि । साधारणलक्षणेष्वृतुषु अर्थात् त्रिषु शरद् सन्तमानुसंशकेषु इतरेषु हेमन्तमात्रसंग्रीष्म मात्र संशवर्षामात्रसंज्ञकेषु निरृत्तिर्निषेधो विधीयते इत्यन्वयः । एतौ तु न हेमन्त शिशिरादिवया विभक्तेषु त्रिषु त्रिषु सम्पदेते। तथा विभागो हि सहःसहस्यौ हेमन्तः, तपस्तपस्यौ शिशिरः, मधुमाधवौ वसन्तः स्यात्; शुक्रशुची तु ग्रीष्मः, नभोनभस्यौ वर्षाः, अश्वयुककार्त्तिकौ शरदिति त्वयनादिनावधि बोध्यम् । तथा विभक्तानामन्त्यान्त्यानामृतूनामादिमादिममास - सहितादिमादिमत्त्व न्तिमान्तिम- मासरूपद्विमासात्मको ह्येवं विभक्त ऋतुरिति । ननु कथं साधारणलक्षणेषु वमनादीनां प्रवृत्तिर्विधीयते निवृत्तिस्थितरेष्वित्यत आह- साधारणेत्यादि । मन्दत्यादि । मन्दशब्दोऽल्पवचनः, शीतादिषु प्रत्येकमन्चीयते । सुखतमाः सुखअनकतमाः प्राणिनां सम्बन्धे भवन्ति । शरीरौषधानां प्राणिनां शरीराणाम् अविकल्पका भावान्तराकल्पकाः औषधानाञ्चाविकल्पकाः संशोधनार्थ कृतौषधानां गुणान्तराकल्पकाः । हि यस्मात् तस्मात् साधारणलक्षणेषु वमनादीनां प्रवृत्तिर्विधीयते । इतरे पुनरिति हेमन्तमात्रादिसंज्ञकास्तु त्रय ऋतवोऽत्यर्थशीतोष्ण वर्ष खात् । पौषमाघात्मक हेमन्तो ऽत्यर्थ शीतखाद् दुःखतमः, वैशाख जेष्ठरूपो ग्रीष्मस्त्वत्यर्थौष्णखाद् दुःखतमः, भाद्राश्विनरूपास्तु वर्षा अतिवर्षखाद् दुःखतमा भवन्तीति । तथावाच्च शरीरौषधानां विकल्पकाr ते भवन्ति । प्राणिनां शरीराणां भावान्तरकल्पकाः औषधानां संशोधनार्थ
।
यदि देशकृतोऽयं भेदः स्यात्, तदा तमेव भेदकं ब्रूयात् न संशोधनम् । सेन, काश्यपोकवेसभेदेन प्रावृड़ादिक्रमो न तावदिहाभिमतः । अविकल्पकाश्च शरीरौषधानामिति, न शरीरस्म कृत्रिमता आपतितगुणेन भेदकास्तथैौषधस्य व न प्रमाणोत्कर्षापकर्षभेदकारका इत्यर्थः, विकल्पका
For Private and Personal Use Only