________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः |
१७१५
;
विमानस्थानम् । स्तस्यानुबन्धो हि वर्षाः । एवमेते संशोधनमधिकृत्य पड़ ग्रहायणौ द्वौ मासौ मन्दशीतोष्णौ । एवं साधारणलक्षणो नातिशीतनात्युष्णरूपी ग्रोष्मान्तर्गतो वसन्तः फाल्गुनचैत्रमासौ मन्दोष्णशीतलक्षणौ । एवं नातिशीतनात्युष्णरूपा वर्षान्तर्गता माहृद् आषाढ़ श्रावणौ द्वौ मासौ मन्दवर्षलक्षणौ । तदितरे च द्विशो मासा हेमन्तग्रीष्मवषसंज्ञा एव न त्वन्यसंज्ञाः । तेषामन्तरेष्विति वचनेन कार्त्तिकाग्रहायणयोर्देमन्तसंज्ञावत् शरतुसंशा, फाल्गुन चैत्रयो ग्रीष्मसंज्ञावद् वसन्तसंज्ञा, आषाढ श्रावणयोर्वषसंज्ञावत् प्रावृट्संज्ञा, न तु शरदादिसंभव न हेमन्तादिसंज्ञति शरदादिसंख्या हेमन्तादिसंानां बाधितत्ववचनाभावात् । ननु कथं प्रावृढच्यते इत्यत आह- प्राडितीत्यादि । माक हृट् हृष्टेः काल इति पृषोदरादित्वात् प्राट् इत्यभिप्रायेणाह प्रथम इति अथवा प्रः प्रकृष्टो दृष्टेः काल इति पृषोदरादित्वाद् आकारागमेऽपि प्रावृट्; इत्यभिप्रायेणाह मवृष्टेः काल इति । नन्वत्र प्रावृषि साधारणत्वं किमित्यत आह-- तस्येत्यादि । तस्य प्रवृष्टेः कालस्यानुबन्धोऽनुरूपेण बन्धो वर्षा इति । नातिशीतनात्युष्णवात् साधारणतं ख्यापितम् । न तस्याशितीये पूर्व्वमुक्तं हेमन्त शिशिरवसन्त ग्रीष्मवर्षाशरद इति षडुतव उक्ता अत्र खन्यथा कथमुच्यते इत्यत आह- एवमेते इत्यादि । एवमनयोक्तरीत्या एते शरद्धेमन्तवसन्तग्रीष्णप्रावर्षाख्या ये पतवो विभज्यन्ते ते संशोधनमधिकृत्यैव नतु चर्य्यामधिकृत्य चर्य्यामधिकृत्य पुनरुक्तास्तस्याशितीये हिमशिशिरादयः षड़िति भावः । ननु संशोधनं यदेवमुक्तेषु षट्स्वेव पु विधीयते तदा तदात्मकत्वादेव हिमशिशिरादिरूपेण विभक्तेष्वपि तत् संशोधनं सम्पद्यते न ह्येवं विभक्ताः षडुतवस्तथाविभक्तपयतिरिक्तः कालो हि न साधारण इति अनतिशीतोष्णवर्पः । प्रावृषं विभजते-- प्रावृडित्यादि । 'प्रथमप्रवृष्टः शब्देन आषादश्रावणादुच्येते । एतच्च द्विमासत्वमृतुभेदकमादि कृत्वा शेषमासद्विकेन वर्षादयो यथाक्रमं ज्ञेयाः । अयञ्च ऋतुक्रमो न रसोत्पत्त्यादौ, किन्तु शरीरशोधने प्रवृत्तावेवेति दर्शयता 'संशोधनमधिकृत्य' इत्युक्तम्, एवमेव च क्रमं सिद्धौ वक्ष्यति - "प्रावृट् शुक्रनभौ ज्ञेयौ शरटूर्जसहौ पुनः । तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति" । अस्मिन्नृतुक्रमे शिशिरो नास्ति । ये तु — गङ्गाया दक्षिणे कूले वर्षा बहु भवति, तेन तत्र प्रावृड्रादिक्रमः । गङ्गोत्तर कूले शीतं बहु भवति, तेन, तत्र हेमन्त शिशिरौ भवतः । उक्तं हि काश्मपेन यत्- "भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे जलम् । तेन प्रावृड़-वर्षाख्यौ ऋतु तेषां प्रकल्पितौ । गङ्गाया उत्तर कूले हिमचदम्बुसङ्गमे । भूयः शीतमतस्तेषां वसन्तशिशिरावृत्" इति । एतच्च न, अत्र 'संशोधनमधिकृत्य' इति वचनात् ।
1
;
For Private and Personal Use Only