________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१४
चरक-संहिता। (रोगभिषगजितीयं विमानम् कालः पुनः संवत्सरश्चातुरावस्था च द्विधा। तत्र संवत्सरो द्विधा त्रिधा षोढ़ा द्वादशधा। भूयश्चातः प्रविभव्यते तत्तत्कार्यमभिप्तमीक्ष्य । तत्र खलु तावत् षोढ़ा प्रविभज्य कार्यमुपदेक्ष्यते। हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रय
तको भवन्ति। तेषामन्तरेष्वितरे साधारणलक्षणास्त्रयः ऋतवः प्रावृटशद्वसन्ता इति। प्रावृडिति प्रथमः प्रवृष्टः कालपरीक्षा पुनरिन्द्रियेषु इन्द्रियस्थानेऽरिष्टेषु जातिसूत्रीये चाध्याये लक्षणान्युपदक्ष्यन्ते । इत्यातुरस्य परीक्ष्यविशेषस्य यथा परीक्षितव्यखं तदुक्तं भवति ॥१०४
गङ्गाधरः-अथ कारणादिषु परीक्ष्येषु मध्ये देशानन्तर्यात् परीक्ष्यविशेषकालो यथा परीक्षितव्यस्तदाह-कालः पुनरित्यादि। चशब्दः समुच्चये। द्विधेति अयनभेदात्। तयोः प्रयोजनाभावात् तस्याशितीये चोक्तखात् प्रतिनियतफलोक्तखाचात्र द्विविधत्वं न विकृत्य त्रिधाखादिकं विवृणोति-भूयश्चात इत्यादि। भूय इति तस्याशितीये सव्वमुक्तं भूयो बहुलञ्चार प्रविभज्यते। त्रिधादिप्रतिनियतकायं वक्ष्यमाणं षोढ़ालपविभागे । त्रिधा धर्मस्यावान्तरखात् साधारणवाद वा त्रिधावं दर्शयति-हेमन्त इत्यादि। हेमन्तादयस्त्रयो योगरूढाः, यौगिकत्वं दर्शयति-शीतोष्णेत्यादि। अत्र क्रमान्वयो बोध्यः। शीतलक्षणो हेमन्तः उष्णलक्षणो ग्रीष्मः वषलक्षणा वर्षा इति त्रयः ऋतवः। नेपां हेमन्तग्रोप्मवाणामन्तरेष्वभ्यन्तरेषु-इतरे संज्ञान्तराः साधारणलक्षणा मन्दशीतलक्षणा शरत्, मन्दोष्णलक्षणो वसन्तः, मन्दवर्ष लक्षणा प्राट् इति त्रय ऋतब इति। त्रिषु च मन्दशीतोष्णवर्षलक्षणखम् । ननु ते के इत्यतः प्रतिलोमतत्रयुक्त्याह-प्राट्शरद्वसन्ता इति। एतेन कार्त्तिकादयश्चखारो मासा हेमन्तः शीतलक्षणः। फाल्गुनादयश्चखारो मासा ग्रीष्म उष्णलक्षणः। आपाढ़ादयश्चखारो मासा वर्षा वर्षलक्षणाः। तेषामन्तर्गता साधारणलक्षणा नातिशीतनात्युषणरूपा हेमन्तान्तर्गता शरत् कार्तिका
चक्रपाणिः-देशपरीक्षां समाप्य काल-परीक्षामाह-काल इत्यादि। संवत्सरोऽयनभेदेन द्विविधः, शीतोष्णवर्षभेदेन विविधः, ऋतुभेदेन षोड़ा, मासभेदेन द्वादशधा, पक्षभेदाच्चतुर्विंश. तिभा, प्रहरादिनाऽनेकधेति शेयम्। तत्तत् कार्यमित्ययनादिना सम्पाद्य कार्यमित्यर्थः ।
For Private and Personal Use Only