________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१७०६ महतीष्वपि पीडास्वव्यथा दृश्यन्ते सत्वगुणवैशेष्यात् । मध्यसत्त्वास्तु अपरानात्मन्युपनिधाय उष्टम्भयन्त्यात्मनात्मानं परैवापि संस्तभ्यन्ते। हीनसत्त्वास्तु नात्मना न च परैः सत्त्वबलं प्रतिगृह्यन्ते उपष्टम्भयितुम् । महाशरीरा ह्यपि ते स्वल्यानामपि वेदनानामसहा दृश्यन्ते, सन्निहितभयशोकलोभमोहमाना रौद्रभैरवद्विष्टबीभत्सविकृतसंकथास्वपि च पशमानुषमांसशोणितानि चावेक्ष्य विषादवैवर्ण्यमूच्र्योन्मादभ्रमप्रपतनानामन्यतममवाप्नुवन्त्यथवा मरणमिति ॥ १०१॥ अव्यथा नातिपीडावन्तो दृश्यन्ते । निजागन्तुनिमित्तास्थितिपदेन मानसपीड़ासु सव्यथा दृश्यन्ते इति ख्यापितम्। ननु कुतस्तथा दृश्यन्ते इत्यत आह–सत्त्वगुणवैशेष्यादिति। सत्त्वस्य मनसः सारखे गुणविशेषवत्त्वात् । अन्यथा तत्सारखं न स्यात् । मध्यसत्त्वानां लक्षणान्याह-मध्यसत्त्वास्वित्यादि। अपरान् स्वेतरान् पुरुषान् आत्मनि स्वस्मिन् उपनिधाय आत्मीकृत्यात्मना मनसात्मानं स्वमुपष्टम्भयन्ति अवरोधयन्ति मध्यसत्त्वाः पुरुषा अथवा परैः स्वेतरैः पुरुषैस्तदात्मनि उपनिधायात्मीभूय वा संस्तभ्यन्ते अवरुध्यन्ते। हीनसत्त्वास्तु पुरुषा आत्मना न स्वेनापि न वा परैर्थात् स्वमन कल्पितप्रबोधनव्यापारैः प्रबोधनव्यापारवद्भिः परैर्वा सह वलं मनोवलम् उपष्टम्भयितुमात्मन्यवरोद्धं न प्रतिगृह्यन्ते प्रबोधदानेन न स्वीकार्यन्ते। ननु कैस्ते ज्ञायन्ते इत्यत आह-महाशरीरा ह्यपीत्यादि। हि यस्मात् महाशरीरा अपि हीनसत्त्वाः पुरुषास्तास्वपि निजागन्तुनिमित्तास्वल्पासु पीड़ासु च मध्ये अल्पानामपि वेदनानामसहा असहनशीला दृश्यन्ते, तथा हीनसत्त्वाः पुरुषाः सन्निहितभयादयः स्युः। तथा रौद्रभैरवादिषु विषादाद्यन्यतममवाप्नुवन्ति । तथा पशुमानुषाणां मांसशोणितानि चावेक्ष्य विषादाद्यन्यतममवाप्नुवन्ति ; अथवा रौद्रादिषु मरणं पशुमानुषमांसाद्यवेक्ष्य च मरणं प्राप्नुवन्ति । ननु सत्त्वसारतः प्रवरा इति ज्ञेया इत्यर्थः। सत्त्वगुणवैशेष्यादिति सत्त्वगुणेन संस्तम्भितवेदनाविकारत्वादव्यथा इव दृश्यन्त इत्यर्थः। परात्मन्युपनिधायेति परं वेदनासहं दृष्ट्वा, 'चेदयं वेदनासहस्तदाहमपि * परात्मनि उपनिधाय इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only