________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०८
चरक-संहिता। रोगभिषगजितीयं विमानम् रुक्षसात्म्याः पुनरेकरससात्म्याश्च ते प्रायेणाल्पबलाश्चाक्लशसहाश्चाल्पायुषोऽल्पसाधनाश्च भवन्ति । व्यामिश्रसारम्याश्च ये, ते मध्यबलाः सास्यनिमित्ततो भवन्ति ॥ १०० ॥
सत्त्वतश्चेति। सत्त्वमुच्यते मनः। तच्छरीरस्य तन्त्रकमात्मसंयोगात् । तत् त्रिविधंबलभेदेन प्रवरं मध्यममवरमिति । अतश्च प्रवरमध्यावरसत्त्वाश्च पुरुषा भवन्ति। तत्र प्रवरसत्त्वाः सत्त्वसाराः सारेषूपदिष्टाः; स्वल्पशरीरा ह्यपि ते निजागन्तुनिमित्तासु
भवन्ति इत्यर्थः । सात्म्यनिमित्तत इत्यनेन संहननादिनिमित्ततो बलं व्यवच्छिद्यते। रुक्षसात्म्याः पुनरित्यनेन ये इत्यनुवर्तते। ये रुक्षसात्म्या ये चैकरससात्म्यास्ते प्रायेणाल्पबलादयः स्युः, सात्म्यनिमित्तत इत्यप्यत्र योज्यम् । प्रायेणेत्यनेन कदाचिदपि मध्यवलादयोऽपि भवन्ति, अल्पसाश्ना अल्पक्रियानिर्वाहकाः सुतरामल्पवलादिसात् । व्यामिश्रसात्म्याश्चेति च-शब्दः पुनरर्थे । व्यामिश्रसात्म्याः मिश्रितघृताद्यन्यतमसात्म्या रुक्षसात्म्याश्चैकरससात्म्या वा ते मध्यबला मध्यक्लेशसहा मध्यायुषो मध्यसाधना इत्यर्थादेव शेयम् ॥१०॥
गङ्गाधरः-क्रमिकखात् सत्त्वतश्चातुरपरीक्षां दर्शयति-सत्त्वतश्चेत्यादि । सत्त्वमुच्यते मन इत्यादि। तदिति मनः शरीरस्य तन्त्रकं नियामकं, कुत इत्यत आह-आत्मसंयोगात्, आत्मना सह मनसो नित्यसंयोगात्। तन्मनस्त्रिविधं बलभेदेनेति। बलभेदमाह-प्रवरमित्यादि। प्रवरबलं मनः, मध्यमबलं मनः, अवरबलं मन इति त्रिविधम् । अतः प्रवरादिमनस्तः प्रवरसत्त्वा मध्यसत्त्वा अबरसत्त्वाश्च पुरुषा भवन्ति । प्रवरसत्त्वादीन क्रमेण लक्षयति-तत्रेत्यादि। प्रवरसत्त्वाः प्रवरं प्रवरबलं सत्त्वं येषां ते तथा, ते सत्त्वसाराः सारेष्वष्टसु मध्ये स्मृतिमन्तः इत्यादिनोपदिष्टाः । ननु ते ज्ञायन्ते च कैः कर्मभिरित्यत आह–स्वल्पेत्यादि। हि यस्मात् स्वल्पशरीरा अपि ते प्रवरसत्त्वाः पुरुषा महतीष्वपि पीड़ासु
भेपजादिपरीक्षयैव परीक्षितत्वादिति ज्ञेयम् । अल्पसाधना इत्यल्पभेषजाः; एकरससान्म्यानां पञ्च रसा असात्म्यत्वेनापथ्या इति भावः ॥ १०॥
चक्रपाणिः-तन्त्रकमिति प्रेरकं धारकञ्च। ते सारेषूपदिष्टा इति- य एव सत्वसारास्त एव
For Private and Personal Use Only