________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०६
चरक संहिता 1
रोगभिषग्जितीयं विमानम्
केवलं पुनः शरीरमङ्ग, लिपर्व्वाणि चतुरशीतिस्तदायामविस्तारसमं सममुच्यते । तत्रायुर्वल मोजः सुखमैश्वय्यं वित्तानीष्टाश्चापरे भावा भवन्त्यायत्ताः प्रमाणवति शरीरे, विपर्ययस्त्वतो हीनेऽधिके वा ॥ ६६ ॥
श्रवणापाङ्गान्तरं पञ्चाङ्गुलम् । त्रिभागाङ्गुलिविस्तारा नासापुटमय्र्यादा । नयनत्रिभागपरिणाहा तारका | नवमस्तारकांशो दृष्टिः । पङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणादं शिरः । तत्र सुश्रुत उवाच । केशान्तमस्तकान्तरमेकादशाङ्गुलम् । मस्तकादवडुकेशान्तो दशाङ्गलः । कर्णावद्वन्तरं चतुर्द्दशाङ्गुलमिति ।
अङ्गप्रमाणमुपसंहरति — केवलं पुनरिति । एकीकृत्य कृत्स्नं शरीरं पुनरङ्गलिपर्व्वाणि चतुरशीतिः । सुश्रुते तु सविंशमङ्ग लिशतं पुरुषायाम इतीति । तत्राङ्गलितोऽत्र पर्व्वणो वैयविभेदोऽस्तीति न विरोधः । तदायामविस्तारसममिति तचतुरशीतिपर्व्वमितं शरीरमायामविस्ताराभ्यां समं तुल्यं सममुच्यते, दैध्ये च चतुरशीतिपर्व्वमितं प्रसारे च चतुरशीतिपव्वंमितमिति भावः । तत्र प्रमाणवति समसंज्ञ शरीरे आयुदीर्घायुः इष्टाश्चापरेऽशोकादयो भावा आयत्ता अधीना भवन्तीत्यर्थः । विपर्य्ययस्तु हीने उक्तप्रत्यङ्गप्रमाणतो हीनप्रमाणे अधिकप्रमाणे च शरीरेऽल्पायुरादयो भवन्ति । प्रत्यङ्गप्रमाणं यस्य नोक्तरूपं किन्तु केषाञ्चिदङ्गानामुक्तमानं केषाञ्चिदङ्गानां नोक्तमानं हीनमधिकं बा तादृशशरीरे मध्यायुरादयः स्युः । सुश्रुतेऽप्युक्तं - पञ्चत्रिंशे ततो वर्षं पुमान् नारी तु षोड़शे । समखागतवीय्यो" तो जानीयात् कुशलो भिषक् । देहः स्वैरङ्गलैरेव यथावदनुकीर्त्तितः । युक्तः प्रमाणेनानेन पुमान् वा यदि वाङ्गना । दीर्घमायुरवाप्रोति वित्तञ्च महदृच्छति । मध्यमं मध्यमैरायुर्व्वित्तं हीनस्तथावरम् । इति । अत्र हीनैरिति उक्तममाणत्यागैन्य नैरधिकैर्वोत्यर्थो लभ्यते । एवम् इति पृष्टमनु श्रीवाया उपरि ज्ञेयम् । केवलमिति पादतलात् प्रभृति शिरःपर्य्यन्तं चतुरशीत्यङ्गुलं भवति, एवं सार्द्धत्रिहस्तप्रमाणशरीरत्वं स्वहस्तेन शरीरस्य भवति । अत्र च प्रत्यवयवोत्सेधेन चतुरशीत्यङ्गुलादधिकं यत् शरीरं भवति, तदवयवानामवयवान्तरदै यनुप्रविष्टानां ग्रहणात् । तेन प्रत्यवयवदैर्घ्यमानेन न चतुरशीत्यङ्गुलं गणनीयं किन्तु समुदितमेव शरीरम् । तत्र पादस्याङ्गुलानि चत्वारि, जङ्घाया अष्टादश, जानुनश्चत्वारि, शिरसः षट्, एवं चतुरशीत्यङ्गुलानि घटन्ते । सुश्रुतेन समं योऽत्र मानविरोधः, सोऽत्राङ्गुलिमानभेदात् शमयितव्यः । तत्र हि सविंशमङ्गुलिशतं पुरुषमानमुक्तम् । तेन तत्राङ्गुलिमानमेवाल्पं ज्ञेयम् । आयामविस्तारसममिति यथोक्तप्रत्यवय घायाम
For Private and Personal Use Only