________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०४
चरक संहिता। रोगभिपग्जितीयं विमानम् दशाङ्गुलावूरू, षड़ङ्गुलिदीघों वृषणावष्टाङ्गुलिपरिणाहौ, शेफः षडङ्गुलिदीर्घ पञ्चाङ्गुलिपरिणाहम्, द्वादशाङ्गुलिपरिणाहो भगः, षोड़शाङ्गुलिविस्तारा कटी, दशाङ्गुलं वस्तिशिरः, द्वादशाङ्गुलमुदरं दशाङ्गुलिविस्तीर्ण च, दशाङ्गुलिविस्तीर्णे द्वादशाङ्गुलायामे पाश्र्वे, द्वादशाङ्गलं स्तनान्तरम्, द्वगुलं स्तनपर्य्यन्तम्, चतुविशत्यङ्ग लविशालं द्वादशाङ्गलोत्सेधमुरः, त्राङ्गलं ® हृदयम्,
अष्टाङ्गुलो स्कन्धौ, षड़ङ्ग लावंसौ, षोड़शाङ्ग लो बाहू, पञ्चदशाषोड़शाङ्गलपरिणाहे । त्रिंशदङ्गलिपरिक्षिपो त्रिंशदङ्गलिपरिणाही ऊरू, अष्टादशाङ्गुलो दैर्ये ऊरू भवतः । द्वात्रिंशदङ्ग लपरिणाहावूरू इति सुश्रुतो मिलितोरुद्वयाभिप्रायेण जङ्घायामसमावूरू इति सुश्रुतः। षड़ङ्गुलिदीघौ वृषणो अष्टाङ्ग लपरिणाहो। द्वाङ्गलानि वृषणचिवुकदशननासापुटभगकर्णमूलनयनान्तराणि। शेफः षडङ्गुलिदीर्घ पञ्चाङ्गुलिपरिणाहम् । शेफः शिश्नः। चतुरङ्गुलाान मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छायदृष्टान्तराणि इति सुश्रुतः। द्वादशाङ्गुलिपरिणाहो भगः। भग इति स्त्रीलिङ्गम् । द्वादशाङ्गलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धकोष्ठस्थौल्यानीति सुश्रुतः। षोड़शाङ्गुलिविस्तारा कटी, (अष्टादशाङ्गुलमाना) तत्प्रमाणा स्त्रीश्रोणिरिति । दशाङ्गुलं वस्तिशिरः। वस्तिशिर इन्द्रवस्तिः। इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरायामः षोड़शाङ्गुल इति सुश्रुतः। द्वादशाङ्गुलमुदरं दशाङ्गुलिविस्तारम् । दशाङ्गलिविस्तीर्णे द्वादशाङ्गुलायामे पाश्वें। पाश्र्व इति द्वे पावें प्रतिपार्श्वम् उक्तमानं बोध्यम् । द्वादशाङ्गुलं स्तनान्तरम् । स्तनान्तरं स्तनतटम्। द्वाङ्गुलं स्तनपर्यन्तम् स्तनान्तदेशः। चतुविंशत्यङ्गुलविशालं द्वादशाङ्गुलोत्सेधमुर इति वक्षः। तत्र त्राङ्गुलं हृदयम्, हृदयं जीवात्मधारणस्थानम्। सुश्रुतश्च अष्टादशाङ्गुलविस्तीर्णमुर इत्याह । अष्टाङ्गुलौ स्कन्धौ। प्रतिस्कन्धमष्टाङ्गुलम् । परिक्षेपः परिणाहः। जानुजङ्घोरुसन्धिपरिणाहपरिमाणञ्च यदुच्यते, तन्मध्यस्थानस्य, तेन सह परिणाहमानेषु जवादिषु मध्यस्थानमेतत् ज्ञेयम्। कन्या उत्सेधपरिमाणं नोक्तम्, तस्या उत्सेधस्य अर्वादिसन्धित्वेन तस्याः पृथगुत्सेधप्रमाणस्य अविद्यमानत्वात्। प्रबाहुरंसादाक् कफोणि.
* द्वरङ्गुलमिति चक्रः।
For Private and Personal Use Only