________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः । विमानस्थानम् ।
१७०३ शरीरमित्युच्यते। तत्र सुसंहतशरीराः पुरुषा बलवन्तो विपर्ययेणाल्पबलाः प्रवरावरमध्यत्वात् संहननस्य मध्यबला भवन्ति ॥८॥ __ प्रमाणतश्चति। शरीरप्रमाणं पुनर्यथास्वेनाङ्गुलिप्रमाणेन उपदिश्यते, उत्सेधविस्तारायामर्यथाक्रमम् । तत्र पादौ चतुईशाङ्गुलौ, जङ्घ त्वष्टादशाङ्गले षोड़शाङ्गुलिपरिक्षिपे च, जानुनी चतुरङ्गुले षोड़शाङ्गुलिपरिचिपे च, त्रिंदशगुलिपरिक्षिपावष्टा
मांसशोणिते यत्र तत् सुसंहतं शरीरम्। सुसंहतशरीरगुणमाह-तत्रेत्यादि । बलवन्त इति अल्पमध्यवलभिन्नवलाः। विपर्ययण असुसंहतशरीरा असुसंहननन्तु सुसंहननभिन्नरूपं किश्चित्संहतशरीरवात्। प्रवरावरमध्यखात् संहननस्य प्रवरः सुसंहननलक्षणवत्ता, अवरस्तद्विपय्येयलक्षणवत्ता न सुसंहननलक्षणवत्ता नासुसंहननलक्षणवत्ता ताभ्याश्च मध्यखात् मध्यमबला भवन्ति इति युक्तिः ॥९८ ॥
गङ्गाधरः-अथ प्रमाणतः परीक्षामाह-प्रमाणतश्चेत्यादि । यथास्वेन स्वस्वालिप्रमाणेन। उत्सेध इत्युच्चतः, विस्तार इति विस्तीर्णलात्, आयाम इति दैर्ध्यात्। स्वेन स्वेनाङ्गुलीमानेन पादौ चतुर्दशाङ्गुलौ। सुश्रुते तु स्त्रैरङ्गालमानैः पादाङ्गष्टप्रदेशिन्यौ द्वाङ्गलायते। प्रदेशिन्यास्तु मध्यमानामिकाकनिष्ठाः यथोत्तरं पञ्चमभागहीनाः। चतुरङ्गलायते पञ्चाङ्गुल विस्तृते प्रपदपादतले । पञ्चचतुरङ्ग लायतविस्तृता पार्णिश्चतुद्देशाङ्गुलायतः पाद इति सुश्रुतः। जङ्घ खष्टादशाङ्गुले, पोड़शाङ्गलिपरिक्षिपे षोड़शाङ्गुलिपरिणाहे। अष्टादशाङ्गुला जङ्घा इति सुश्रुतः। किन्तु चतुद्देशाङ्कलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानीति वचनेन विरोधेऽपि दीर्घायुष्ट्रव्याघाताभावो बोध्यः। जानुनी चतुरङ्गले
अतिप्रमाणशरीरत्वात् । पिपीलिकाभारहरणवदिति स्वल्पा पिपीलिका यथा सारशरीरत्वेन महान्तं भारं नयन्ति, तथान्ये कृशशरीराश्चेत्यर्थः। सङ्घात इति निविड़सन्धान इत्यर्थः ॥ ८८-९८ ॥
चक्रपाणिः-प्रमाणतश्चेत्यादिना प्रशस्तं प्रमाणमङ्गावग्रवानामित्याह। पादौ उत्सेधेन चत्वारि, विस्तारेण पट, दैयण चतुर्दशाङ्गुलानीति यथाक्रमं भवतः। जङ्घा जान्वध उच्यते ।
For Private and Personal Use Only