________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०२
चरक-संहिता। रोगभिषजितीयं विमानम् __ अतो विपरीतास्त्वसाराः। मध्यानां मध्यः सारविशेषर्गणविशेषा व्याख्याताः। इति साराण्यष्टौ पुरुषाणां बलप्रमाणविशेषज्ञानार्थमुपदिष्टानि भवन्ति ॥६६॥ ___ कथं नु शरीरमात्रदर्शनादेव भिषगत्र मुह्य दयमुपचितत्वाद् बलवानयमल्पबलः कृशत्वादयं महाबलवान् महाशरीरत्वादयमल्पशरीरत्वाद् दुर्बल इति। दृश्यन्ने ह्यल्पशरीराः कृशाश्चैके बलवन्तः, तत्र पिपीलिकाभारवहनवत् सिद्धिः। अतश्च सारतः परीना इत्युक्तमेव ॥ १७॥
संहननतश्चेति । संहननं संहतिः संयोजनमित्येकोऽर्थः । तत्र समसुविभक्तास्थि सुबद्धसन्धिसुनिविष्टमांसशोणितं सुसंहतं
गङ्गाधरः-अतोऽटसारेभ्यो विपरीता भिन्नलक्षणयुक्ता असाराः। मध्यैः सारविशेषैरेकद्विसारलक्षणेतरसारलक्षणेमध्यानां मध्यसाराणां गुणविशेषाः तदेकद्विसारगुणेतरगुणविशेषा व्याख्याताः। एतेन असारा अल्पबला अल्पायुषश्च भवन्ति। मध्यसारा मध्यवला मध्यायुषश्च भवन्ति इति बोध्यम् ॥ ९६ ॥
गङ्गाधरः- एतदष्टसारादीनामतिबलादिवचने संशयमाह--कथमित्यादि। बलवानिति उपचितबलवान्, महावलोऽतिशयबलवान्, दुर्बलः क्षीणबलः, अल्पवलस्तु स्वाभाविकाल्पखात् भेदः। मोहं दर्शयितुमुत्तरमाह-दृश्यन्ते ह्यल्पेत्यादि। अतश्च शरीरमात्रदर्शनादेवातिवलादीनां ज्ञानाभावात् सिद्धिभवति सारतः परीक्षा इत्युक्तम्। सारतः परीक्षां विना पिपीलिकामारवहनं न हि शरीरमात्रदर्शनात् महावलज्ञानेन भवति ॥९७॥ __ गङ्गाधरः-अथ संहननतश्चातुरपरीक्षामाह-संहननतश्चेत्यादि। संहननं विवरीतु तत्पर्यायमाह-संहननमिति । समसुविभक्तेत्यादि। समं यथायोग्य सुष्ठ विभक्तमस्थि यत्र तत्, सुष्ट्र बद्धाः सन्धयो यत्र तत्, सुष्ठ निविष्टे शब्देन नियमनं निषेधयति । मध्यानामिति स्तोकसाराणाम् । मध्यैः सारविशेषैरिति ये यत्र सम्भवन्ति सारास्तथा सारभूतैरित्यर्थः। उपचितत्वादिति स्थूलत्वात्। महाशरीरत्वादिति * सङ्घात इति वा पाठः।
For Private and Personal Use Only