________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६४
चरक-संहिता। (रोगभिषगजितीयं विमानम् हि येन येन दोषेण एकेन अधिकेन समेन वा अनुबध्यन्ते तेन तेन दोषेण गर्भोऽनुबध्यते। सा सा दोषप्रकृतिरुच्यते सर्वमनुष्याणां गर्भादिप्रवृत्ता। तस्मात् श्लेष्मलाः प्रकत्या के.चत् पित्तलाः केचिद्वातलाः केचित् समधातवः केचिद् भवन्ति। तेषां लक्षणानि व्याख्यास्यामः॥८१॥
श्लेष्मा हि स्निग्धश्लदणमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविजलाच्छः। तस्य स्नेहात् श्लेष्मलाः स्नि-धागाः, श्लथए त्वात् श्लदणाङ्गाः, मृदुत्वाद् दृष्टिसुखसुकुमारावदाताङ्गाः,
अपेक्षते। हि यस्मात् गर्भशरीरापेक्षणीयास्तु एताः शुक्रशोणितप्रकृतिकालगर्भाशयप्रकृतिमात्राहारविहारप्रकृतिमहाभूतविकारप्रकृतयो भवन्ति । येन येन एकेनाधिकेन समेन वा दोषेण वातपित्तकफरूपेणानुवध्यन्ते, तेन तेनैकेनाधिकेन समेन वा दोषेण गौऽनुबध्यते तदारब्धत्वात् तदाकरखाच। तस्मात् स्वप्रकृतिशुक्रशोणिताधनुबन्धकदोषानुबन्धखात् सा सा स्वप्रकृतिशुक्रशोणिताउनुबन्धकदोषप्रकृतिमनुष्याणां गर्भादिप्रवृत्ता उच्यते, तस्मात् तेन तेन दोषण प्रकृतिव्यपदेशात् केचित् प्रकृत्या श्लेष्मलाः केचित् प्रकृत्या पित्तलाः केचित् प्रकृत्या वातलाः केचित् समधातवः प्रकृत्या भवन्ति। एषां स्वस्थवम् आतुरतश्च स्वास्थ्यचतुष्के व्याख्यातं तथा रोगानीकविमाने व्याख्यातम् ॥८१
गङ्गाधरः-श्लेष्मा हीत्यादि। सारं प्रसादरूपं, विज्जलः पिच्छिलः, अच्छः वैमल्यवान्। श्लेष्मणः प्रतिगुणतः श्लेष्मलानां लक्षणान्याह-तस्य स्नेहादित्यादि । तस्य श्लेष्मणः। तस्येत्यस्य सवेत्रवान्वयः। श्लक्ष्णाङ्गा अकर्कशाङ्गाः, दृष्टिसुखसुकुमारावदाताङ्गाः दशने मुखजनक सुकुमार मृदुभूतमवदातं
भवन्तीति। तन्त्रान्तरे शुक्रशोणितगतदोषेणैव प्रकृत्युत्पादो दर्शितः। गर्भादिप्रवृत्तेति गर्भस्यादि. मेलके प्रवृत्ता। समैर्दोष'बैर्गर्भजन्मैव न भवति इति विकृतदोषत्रयं प्रकृतेरारम्भकमिति ज्ञेयम्। प्रकृतिविकारश्च सूत्रस्थान एव व्याकृतः ॥ ८०८५ ॥
चक्रपाणिः-मृदुत्वं जलकृतम्, जलश्चावदातमिति मृदुत्वादेवावदासत्वम्। अशीघ्रशब्दः
For Private and Personal Use Only