________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् । १६६३ संहननतश्च प्रमाणतश्च सात्म्यतश्च सत्त्वतश्चाहारशक्तितश्च व्यायामशक्तितश्च वयस्तश्चेति बलप्रमाणविशेषग्रहणहेतोः॥८॥ ___ तत्रेमान् प्रकृत्यादीन् भावाननुव्याख्यास्यामः। तद् यथा-शुक्रशोणितप्रकृति कालगर्भाशयप्रकृति मातुराहारविहारप्रकृति महाभूतविकारप्रकृतिश्च गर्भशरीरमपेक्षते। एता दशकतः परीक्षेत। प्रकृत्यादिज्ञानेनातुरस्य बलप्रमाणशानं भवति, बलदोषप्रमाणशानेनातुरखलप्रमाणापेक्षो दोषप्रमाणानुरूपो भेषजप्रमाणविशेषः कल्पयितुं शक्यते भिषजेति बोध्यम् ॥८॥
गङ्गाधरः-ननु प्रकृत्यादयः कीदृशा इत्यत आह-तत्रेमानित्यादि । तत्रादौ पुरुषाणां प्रकृति वितृणोति-तद् यथेत्यादि । शुक्रेत्यादि । मनुष्याणामित्यर्थात् बोध्यम् । तेन मनुष्याणां गर्भशरीरं शुक्रशोणितप्रकृति यादृशपुरुषस्य यादृशशुक्रं यादृशनार्या यादृशशोणितं तयोर्या प्रकृतिः। मातुः कालगर्भाशयप्रकृतिं मातुः कैशोरयौवनतारुण्यप्रौढ्याद्यावस्थिककाले गर्भाशयस्य या प्रकृतिः। मातुराहारविहारप्रकृतिं गर्भाधाने सति मातुर्यद्यदाहारोऽभ्यवहरणं यथा यथा च विहारस्तयोर्या प्रकृतिः। महाभूतविकाराः शोक्रा आत्तवा आहारद्रव्यरसजा आत्मजाश्च वातादयश्चवारश्चतुर्विधास्तेषामाकाशस्य च या या प्रकृतिः, तां तां प्रकृतिमपेक्षते। यथाशुक्रं यथातवं यथाकालगर्भाशयानुरूपं मातुराहारविहारानुरूपश्च महाभूतविकारानुरूपञ्च गर्भशरीरम् तस्मादित्यादि। बलप्रमाणविशेषग्रहणहेतोरित्यत्र देहबलं दोषबलञ्च सामान्येन गृह्यते। येन विकृतितः शरीरज्ञानं दोपबलज्ञानहेतोर्भवति, तदेव "प्रकृत्यादीनां विकृतिवर्जानाम्" इत्यादिना वक्ष्यति। किंवा बलं शारीरं बलमेवोच्यते, तत्र च विकृतिबलेनापि शरीरबलं बुध्यत इति कृत्वा इह सामान्येनोक्तम्, उत्तरत्र तु विकृत्या दोषप्रमाणं प्रायो विज्ञायत इति कृत्वा "विकृतिबलत्रैविध्येन दोषबलत्रैविध्यमनुमीयते" इत्युक्तम् । प्रकृतिमिति स्वभावम् । एतानि तु शुक्रादीनि शुक्रशोणिते वा। यादृगवस्थो दोषस्तादृगगर्भ प्रकृतिर्भवति, यथा शुक्रशोणितमेलककाले यो दोष उत्कटो भवति स प्रकृतिमारभते, एवं गर्भाशयस्थश्च दोषः। मातुराहारविहारौ तत्कालीनौ यद्दोषकरणम्वभावौ, सा च प्रकृतिर्गर्भशरीरे भवति। एषु च प्रकृत्यारम्भकेषु कारणेषु यद्बलवद्भवति कारणान्तरवृहितञ्च, तदेव प्रकृत्यारम्भकं भवति । कालादयश्च शुक्रशोणितमेव कुर्वन्तः प्रकृतिजनका
For Private and Personal Use Only