SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६२ चरक-संहिता। रोगभिषगजितीयं विमानम् औषधेः, विशेषतश्च नारीः; ता ह्यनवस्थितमृदुविवृतकविक्लवहृदयाःप्रायःसुकुमारा अबलाः परमसंस्तभ्याश्च । तथा बलवति बलवद्वयाधिपरिगते स्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेव भवति। तस्मादातुरं परीक्षेत प्रकृतितश्च विकृतितश्च सारतश्च माय्यतश्च लघुभिरारभ्योत्तरोत्तरं गुरुभिर्वीर्यतः सौकुमाय्यतश्च गुरुभिरविभ्रमैः देहमनसोविशिष्टभ्रमकरखाभावैरनात्ययिकैरत्ययकरखाभावैश्वौषधैः उपचरन्ति, न खतिवलैराग्नेयादिभिरौषधैरग्निक्षारशस्त्रकर्म भिश्च। अल्पबलेषु अविषादकराद्यौपधोपचरणप्रसङ्गात् जातिमात्रेणाल्पवलखाद्वा स्त्रीणां तदौषधोपचरणमाह-विशेषतश्चेत्यादि। विशेषतो नारीश्चाविषादकरैम दुसुकुमारपायैरुत्तरोत्तरं गुरुभिरविभ्रमैरनात्ययिकश्चौषधैरुपचरन्त्येतच्चैव कारणमवेक्षमाणा भिषजः। कुत इत्यत आह-ता इत्यादि। हि यस्मात् ता नायौंऽनवस्थितमृदुवित्र्तविलवहृदयाः अनवस्थितं न क्षणमप्येकरूपेणावस्थितं मृदु च विकृतं न संवृतं गोपनबुद्धया नाटतं विक्लवं विशिष्टभयशीलं हृदयं षड़नाङ्गविज्ञानेन्द्रियतदर्थसगुणात्ममनसां स्थानं यासां तास्तथा। क्लव ष भये इति क्लव्धातो रूपं विक्लवम् । प्रायः बाहुल्येन सुकुमाराः प्रायोऽबलाश्च अल्पबलाः परमसंस्तभ्याः परमस्तम्भनीयाः न तु संशोधनीयास्तस्मादबलास्तु नारीः विशेषतोऽविषादकराद्यौपधैरुपचरन्ति एतत् कारणमवेक्षमाणा भिषज इति । ननु हीनवलं बलवदौषधं प्रयुक्तमेवं व्यापत्तिं करोतु बलवन्तञ्चाल्पबलमौषध किं युक्तं न वेत्यत आह-तथेत्यादि। बलवति पुरुषेऽल्पवलव्याधिमति बलवद्ववाधिपरिगते चाल्पबले वा असाधकं व्याधिनिवृत्तेरसाधकम् । तस्मात् उक्तकारणात् आतुरं बलदोषप्रमाणशानहेतोः प्रकृतितश्चेत्यादितो पाककालेऽप्यविकारिकैः। अनात्ययिय रिति न महाविपत्तिकरैः। यथोक्तगुणभेषजं विशेषेण स्त्रीणां कर्त्तव्यमित्याह-विशेषत इत्यादि। हृदयशब्देन हृदयस्थं मन इति ज्ञेयम्। मृवृत्तम् अगम्भीरम्। विक्लवं स्तोकक्ल शाभिभवनीयम्। अनेन च दुर्बलचेतस्त्वमुक्तम् । परसंस्तम्भ्याः न स्वयमात्मानं सवचनात् स्तम्भयन्ति। तथेत्यादिनाऽल्पप्रमाणभेषजदोषमाह- बलवव्याधिपरिगते इति वचनेन:य एव बलवान् व्याधिर्बलवतः, स रवाल्पभेषजासाध्यः, यस्तु बलवतोऽप्यबलः, सोऽल्पभेषजसाध्य एव परीक्षाहेतुमभिधाय यथा शरीरं परीक्षणीयं तदाह* वृत्तेति चक्रः । - 1 परसंस्तभ्याश्व इति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy