________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दम अध्यायः
१६६१
विमानस्थानम् । बलमौषधमपरीक्षकप्रयुक्तमल्पबलमा तुरमतिपातयेत् । न हि अतिबलान्याग्नेयसौम्यवायवीयान्यौषधान्यग्निचारशस्त्रकम्र्माणि वा शक्यन्तेऽल्पबलैः सोम, असातितीक्ष्णवेगित्वाद्धि सद्यः प्राणहराणि स्युः । एतच्चैव कारणमवेक्षमाणा हीनबलमातुरमविषादकरैः मृदुसुकुमारप्रायैरुत्तरोत्तर गुरुभिर विभ्रमैर नात्ययिकैश्चोपचरन्ति
Acharya Shri Kailassagarsuri Gyanmandir
यस्मात् अतिवलमातुरस्य बलमतिक्रान्तमतिशयबलवदीपधमपरीक्षकप्रयुक्तम् आतुरस्य बलं न परीक्ष्य भिषजा मूढेन प्रयुक्तमल्पवलमातुरमतिपातयेत् मारयेद वामृतकल्पं वा कारयेत् । अल्पबलमौषधन्व तिबलमातुरं न पातयेत् न वा व्याधिसाधकं भवति इत्यतोऽनात्ययिकखात् तन्नादावुदाहृत्याचार्य आदौ आत्ययिकत्वात् तु अतिबलभेषजस्याल्पवलातुरे प्रयोगदोषं प्रदर्शितवान् । नन्वाग्नेयः पुरुषोऽल्पवलोsपि सौम्यमौषधमतिबलमपि सोढ़ शक्नोतीति कुतोऽल्पवलमातुरम् अतिबलमौषधमतिपातयेदित्यत अतिवलोपधस्याल्पवलातुरे प्रयोगोदाहरणमाह-न ह्यतीत्यादि । हि यस्मात् आग्नेयानि वा सौम्यानि वा वायवीयानि artisarfararaarन भवन्ति तदा तानि कानिचिदप्यतिबलान्योधानि नापवलः पुरुषः सोहू शक्यन्ते, न चामिक्षारशस्त्रकर्माणि वाल्पबलैः सोढुं शक्यन्ते । अल्पबलानाम् अग्न्याद्य सहत्वप्रदर्शनन्तु प्रसङ्गात् शिष्टज्ञानार्थं बोद्धव्यं न तेनासङ्गतम् । ननु तानि कानिचिदपि कुतो न सोढ़ शक्यन्ते अल्पवलैरित्यत आह- असह्यातीत्यादि । असह्यत्वादतिबलान्योपधानि अल्पबलेषूपयोजितानि तेषां सद्यःप्राणहराणि स्युरतितीक्ष्णवे गित्वाद निक्षारशस्त्रकर्माणि चाल्पवलेपयुक्तानि तेषां सद्यःप्राणहराणि स्युरित्यर्थः । तस्मादातुरस्य वलदोषप्रमाणं ज्ञातव्यम् । आतुरस्य बलदोषप्रमाणज्ञानफलमाह - एतच्चैवेत्यादि । एतच्चैव उक्तं तावत् कारणमवेक्षमाणा भिषजः हीनबलमातुरं तदातुराणाम् अविषादक रेंमृ दुसुकुमारमायैम् दुवीर्य्यसेवन सौख्यवाहुल्यैश्च पूर्व वीय्येतः स कु
भवति । विपर्ययेण व्याकरोति- अल्पबले रोगिणि अपरीक्षकप्रयुक्तमेवातिमात्रं भवतीत्युक्तम्, न तु परीक्षकप्रयुक्तम् । प्राणहराणि स्युरिति अल्पबल इत्यर्थः । अविषादकरं शरीरमनसोरग्लानिकरम् उत्तरोत्तरं प्रमाणलक्षणगुरुत्वं येषां तैः । 1 तेन दुबले यदि महादोषः, स च भूममात्रभेषजसाध्यस्तथापि तदात्वव्यापत्तिभयान्न सहसा भेषजभूयस्त्वं कर्त्तव्यम्, किन्तूत्तरोत्तरमभ्यासवाट बलमपेक्ष्य भेषजभूयस्त्वं कर्त्तव्यमिति दर्शयति । अविभ्रमैरिति
For Private and Personal Use Only