________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम्।
१६६५ माधुर्य्यात् प्रभूतशुक्रव्यवायापत्याः, सारत्वात् सारसंहतस्थिरशरीराः, सान्द्रत्वादुरचिापरिपूर्णसर्लाङ्गाः, मन्दत्वान्मन्द
चेष्टाहारव्याहाराः, स्तमित्यादशीघ्रारम्भक्षोभविकाराः, गुरुत्वात् साराधिष्ठितगतयः, शैत्यादलपक्षुत्तृष्णासन्तापस्वेददोषाः, विज्जलत्वात् सुश्लिष्टसारसन्धिबन्धनाः, तथाच्छत्वात् प्रसन्नदर्शनाननाः प्रसन्ननि-धवर्णस्वराश्च भवन्ति । त एवंगुणयोगात् श्लेष्मला बलवन्तो वसुमन्तो विद्यावन्त ओजस्विनः शान्ता आयुष्मन्तश्च भवन्ति ॥२॥ निर्मलमॉ येषां ते तथा। प्रभूतानि बहूनि शुक्रव्यवायापत्यानि येषां ते तथा। सारसंहतस्थिरशरीराः सारं बहुसारात्मकं संहतं निविड़ स्थिरम् अचलं शरीरं येषां ते तथा। उपचितपरिपूर्णसर्वाङ्गाः उपचितानि समृद्धानि परिपूर्णानि अहीनानि सर्वाणि अङ्गानि येषां ते तथा। मन्दचेष्टाहारव्याहाराः मन्दा अल्पाश्चेष्टा क्रियाश्चाहाराश्च व्याहाराः वाचश्च येषां ते तथा ।अशीघ्रारम्भक्षोभविकाराः अशीघ्र चिरेण कालेन आरम्भः शरीरवाक्मनःप्रवृत्तिः क्षोभो मनसोऽकस्मात् क्षुब्धता विकारो मनसो वा शरीरस्य वा वैषम्यं येषां ते तथा। साराधिष्ठितगतयः सारेणाधिष्ठिताः प्रमत्तगजेन्द्राणामिव गतयो येषां ते तथा। अल्पक्षुत्तृष्णासन्तापस्वेददोषा इति दोषपदेन दोपजव्याधावपि तृष्णादीनामल्पत्त्वमिति ख्यापितम्। विजलखात् पैच्छिल्यात् । सुश्लिष्टसारसन्धिबन्धनाः सुष्ठ श्लिष्टानि संयुक्तानि साररूपेण सन्धीनां बन्धनानि येषां ते तथा। प्रसन्नदर्शनाननाः प्रसादरूपेण दर्शनं वस्तूनां दृष्टिराननञ्च येषां ते तथा। प्रसन्नस्निग्धवर्णस्वराः प्रसन्नौ च स्निग्धौ वर्णस्वरौ येषां ते तथा। वर्णप्रसादः स्निग्धवर्णत्वं प्रसन्नस्वरता श्रुतमधुरस्वरता चेत्यर्थः। त एवंगुणयोगादिति ते श्लेष्मलाः पुरुषा एवमुक्तगुणयोगात्। बलवन्त इति बलं विपुलतया वत्तेते येषां ते बलवन्तः । आरम्भादिभिः प्रत्येकमभिसम्बध्यते। सारगतयो न स्खलन्ति, अधिष्ठितगतयः सर्वेण पादेन महीमाक्रमन्ति। अवस्थितगतयः अवस्थितत्वेन पादगतिर्भवति। प्रसन्ने दर्शनानने यस्य स तथा। वसुमत्वादि प्रकृतिरूपं यद भवति, तत् प्रकृतिभावाज ज्ञेयम् ॥ ८२ ॥
For Private and Personal Use Only