________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्। १६८६ . देशो भूमिरातुरश्च। तत्र भूमिपरीक्षा आतुरपरिज्ञानहेतोर्वा स्यात् औषधपरिज्ञानहेतोर्वा । तत्र तावदियं खलु आतुरपरिज्ञानहेतोः। तद् यथा-अयं कस्मिन् भूमिदेशे जातः संवृद्धो व्याधितो वा, तस्मिंश्च भूमिदेशे मनुष्याणामिदमाहारजातमिदं विहारजातमिदमाचारजातमेतावच्च बलमेवंविधं सत्त्वमेवंविधं सात्म्यम् एवंविधो दोषः भक्तिरियमिमे व्याधयो हितमिदमहितमिदमिति ।। औषधपरिज्ञानहेतोस्तु कल्पेषु भूमिपरीक्षा वक्ष्यते ॥ ७९ ॥ पञ्च प्राणाख्यादयो वायवस्तैः सह संयोगस्तस्य लिङ्गं श्वासोच्छासस्पन्दनवचनादिकं श्वासादिना प्राणैः संयोगोऽनुमीयते तेन चायुरनुमीयते। आयुषोभावमात्रं हि म्रियते मृत्युश्च प्राणवियोगेनानुमीयते प्राणवियोगश्च श्वासाद्यभावेनानुमीयते इत्थमायुः परीक्षितव्यम् ॥ ७८॥
गङ्गाधरः-ननु परीक्ष्यविशेषश्च देशः कः कथश्च परीक्षितव्य इत्यत आहदेश इत्यादि। ननु भूमिस्तु देशः किमर्थं परीक्ष्यते इत्यत आह-तत्रेत्यादि । सत्र भूम्यातुरयोमध्ये भूमिपरीक्षा आतुरपरिज्ञानहेतोः स्यात् । औषधपरिज्ञानहेतोश्च स्यात् । वा-द्वयं प्रत्येकप्राधान्यार्थम् । नन्वातुरपरिशानहेतो मिपरीक्षा कथं कार्य्या इत्यत आह-तत्रेत्यादि। आतुरपरिज्ञानहेतोभूमिपरीक्षेत्यर्थाल्लभ्यते। परीक्षा परीक्षणचिह्नम्। तद् यथेत्यादि। अयमातुरो योऽयं दृश्यते कस्मिन्नित्यस्य संदृद्ध इत्यनेन व्याधित इत्यनेन च सम्बन्धः । आहारादिक्षानेन रोगाणां कारणानं व्याधितानां क्रियासहवासहखादिपरिज्ञानश्च भवति । विहारः परिस्पन्दनव्यापारः । आचारो वैधावैधक्रियाहेतूप
चक्रपाणि:-क्रमप्राप्तं देशमाह--देश इत्यादि ।--आतुरशब्देनेह शङ्कपमानातुर्य्यतया स्वस्थवृसोपदर्शनीयः स्वस्थोऽपि ग्राह्यः। सोऽपि हि परीक्ष्यत एव स्वस्थवृत्तप्रयोगार्थम्। परि. शब्दो विशेषार्थः। तेन आतुरस्य सकलदेशकृतविशेषेण ज्ञानमातुरपरिज्ञानम्। एवं भेषजपरिज्ञानेऽपि देशकृतविशेषज्ञानं परिज्ञानं बोद्धव्यम्। समृद्ध इति वर्द्धितः। एवंविधं सात्म्यमित्योकसात्म्यमित्यर्थः । इदं हितमित्यनेन च देशापेक्षया विपरीतगुणसात्म्यं ब्रूते। प्रायो. * समृद्ध इति चक्रः। । इतः परं "प्रायोग्रहणेन" इति चक्रेणाधिकं पठ्यते ।
२१२
For Private and Personal Use Only