________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८८
चरक-संहिता। (रोगभिषाजितोयं विमानम् कायं धातुसाम्यं, तस्य लक्षणं विकारोपशमः, परीक्षा त्वस्य रुगुपशमनं स्वरवर्णयोगः शरीरोपचयो बलवृद्धिरभ्यवहार्याभिलाषो रुचिराहारकाले कालेऽभ्यवहृतस्य चाहारस्य सम्यगजरणं, निद्रालाभो यथाकालं वैकारिकाणां स्वप्नानाम् अदर्शनं सुखेन च प्रबोधनं वातमूत्रपुरीषरेतसां मुक्तिः सर्वाकारैर्मनोबुद्धीन्द्रियाणाश्चाव्यापत्तिरिति ॥७६॥ ___ कार्यफलं सुखावाप्तिः, तस्य लक्षणं मनोबुद्धीन्द्रियशरीरतुष्टिः॥७७॥
अनुबन्धस्तु खल्वायुः, तस्य लक्षणं प्राणः सह संयोगः ॥ ७८॥
गङ्गाधरः-कायमित्यादि। कर्तुः कार्य्यमत्र धातुसाम्यमिति यदुक्तमग्रे तस्य लक्षणं विकारोपशमः ज्वरादुरपशमः। तस्य ज्वरादिविकारोपशमस्य परीक्षा तु रुगुपशमनमित्यादि रुगुपशमनं यातनोपशमनं, यातनोपशमनादिना ज्वरादुरपशमोऽनुमीयते, ज्वरादुरपशमनेन धातुसाम्यं धातुवैषम्याभावोऽनुमीयते । सुखेन प्रबोधनं शेयेष्वर्थेषु सुखेन ज्ञानं भवति सुखेन च वातादीनाम् अधोवातादीनां मुक्तिस्त्यागः। अव्यापत्तिः सम्पत् । इत्येवं प्रकारेण कार्यपरीक्षा कार्या॥ ७६ ॥
गङ्गाधरः-परीक्ष्यविशेषश्च कार्यफलं कथं परीक्षितव्यमित्यत आह–काय्यफलमित्यादि। इत्युक्तमग्रे इत्यप्यत्र योज्यम् । तस्याः सुखायाप्नेलक्षणम् अनुमानकरणं मनसश्च बुद्धीन्द्रियाणाश्च शरीरस्य च तुष्टिः परितोषः। शरीरान्तर्गतत्वेन कर्मेन्द्रियाणामनुपादानान्न न्यूनता। इत्थं काय्र्यफलं परीक्षितव्यम् ॥ ७७॥
गङ्गाधरः-नन्वनुबन्धः कथं परीक्षितव्य इत्यत आह-अनुबन्ध इत्यादि । अत्रापि इत्युक्तमग्र इति योज्यम्। तस्यायुषो लक्षणं प्राणैः संयोगः। प्राणाः
चक्रपाणिः-साकारैरिति सर्वशुभलक्षणैः। सुखावाप्तिरित्यात्मगुणसुखप्राप्तिः। प्राणैः सह संयोग इति प्राणलक्षणवायुना योग इत्यर्थः । तेन प्राणशब्दस्यायुषो भिन्नार्थत्वालक्ष्यलक्षणयोभैदः ॥ ७६-७८॥
For Private and Personal Use Only