________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८७
हम अध्यायः
विमानस्थानम् । गृहीतमेवंनिहितमेवमुपस्कृतमनया च मात्रया युक्तमस्मिन् व्याधावेवंविधस्य च पुरुषस्यैतावन्तं दोषमपकर्षत्युपशमयति वा। यदन्यदपि चैवंविधं भेषजं भवेत् तच्चानेनान्येन वा विशेषेण युक्तमिति ॥ ७४॥
कार्ययोनिर्धातुवैषम्यम् , तस्य लक्षणं विकारागमः, परीक्षा त्वस्य विकारप्रकृतेश्चोनातिरिक्तलिङ्गावेक्षणं विकारस्य च साध्यासाध्यमृदुदारुणलिङ्गविशेषावेनणमिति ॥ ७५ ॥
एवं निहितम् ईदृशरूपेण ईदृशस्थाने स्थापितम् । एवमुपस्कृतमीदृशप्रयत्ने न भूषितम्। वमनादुरपयोगगतसंशमनोपगतभेषजेभ्योऽन्येषां परीक्षार्थमाहयदन्यदपीत्यादि। शस्त्रक्षारादिकं यदन्यदपि भेषजं तदनेनोक्तेनान्येन सुधारदुर्धारवादिरूपेण वा एपा भेषजपरीक्षा ॥७४॥ ___ गङ्गाधरः-क्रमिकलात् कार्ययोनिपरीक्षार्थमाह-कार्ययोनिर्धातुवैधम्यम्, अत्रापि इत्युक्तमग्र इत्यस्यान्वयः। तस्य धातुवैषम्यस्य विकारागम इति विकारो धातुवैषम्यमिति यदुक्तं तदत्र न विवक्षितं, परन्तु तस्य कार्य ज्वरादिरूपं तस्यागम उत्पत्तिः। परीक्षेत्यादि। अस्य धातुवैषम्यतो विकारागमस्य परीक्षा तु विकारस्य ज्वरादेः प्रकृतेयोनेर्वातादिशारीरमलस्य रसादिधातूपधातोश्च रजस्तमसोर्मानसमलयोः सत्त्वस्य च दृष्यस्य ऊनातिरिक्तलिङ्गावेक्षणम्। ऊनलक्षणावेक्षणेन धातूनां हासतो व्याधिजन्म, अतिरिक्तलक्षणावेक्षणेन धातूनां द्धितो व्याध्यागमोऽनुमीयते। विकारस्य च धातुवैपम्यजनितस्य ज्वरादेः साध्यवादिलिङ्गविशेषावेक्षणञ्चेति प्रकारेण कार्ययोनिपरीक्षा कार्यो । ७५॥
शब्देन क्वाथकल्कादुरपयोजनीयं द्रव्यं 'द्रव्यम्' उच्यते इति । एतच्च मनोहारि। अनेन चान्येनेति साधनमूतेन च एवंप्रकृत्या इत्यादिनोक्तेन तथा साध्येन च एवंविधस्य पुरुषस्य इत्यादिनोक्तेन विशेषेण युक्तममूदित्यर्थः ॥ ७४ ॥
चक्रपाणिः- तस्य लक्षणं धातुवैषम्यं प्रत्युपपन्नमित्यर्थः। विकारप्रकृतेरिति विकारस्य प्रकृतेर्दोषस्येत्यर्थः ॥ ७५ ॥
For Private and Personal Use Only