SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८६ चरक-संहिता। रोगभिषगजितीयं विमानम् चेति। तत्र अद्रव्यभूतं तद् यदुपायाभिप्लुतम् । उपायो नाम भयदर्शनविस्मापनक्षोभणहर्षणभसन-बन्धनस्वप्नसंवाहनादिः अमत्यो भावविशषो यथोक्ताः सिद्धापायाश्चेति। यत् तु द्रव्यभूतं वमनादिषु योगमुपैति तस्याप्येषा परीक्षा। इदमेवंप्रकृति एवंगुणमेवंप्रभावमस्मिन् देशे जातमस्मिन् ऋतावेवं. प्रतिलोमतन्त्रयुक्त्या खद्रव्यभूतं लक्षयति । तत्रेत्यादि। यदुपायाभिप्लुतम् उपायोपेतं यत् तदद्रव्यभूतम्। यथा लङ्घनादिकं भयप्रदर्शनाद्यर्थम्। दण्डोतोलनादिकरणादिकं कर्स। प्रसङ्गसङ्गत्यात्रैवोपायं निर्दिशति। लक्षणन्तु पूर्वमुक्तम् उपायो नामेत्यादि । अमोऽमानुपिको व्यापारः। यथोक्ता यस्मिन् व्याधौ ये सिद्धापायास्ते च इति एतदुपायाभिप्लुतं भयप्रदर्शनादिनिमित्तं दण्डोत्तोलनादिकं कर्म अद्रव्यभूतं भेषजं भवति, तस्य च परीक्षा नोपपद्यते इत्यतः प्रागद्रव्यभूतादिदं निर्दिष्टमल्पखात् । ० । परीक्ष्यवाद द्रव्यभूतमाह-यत् खित्यादि। तस्य संशमनस्य द्रव्यभूतस्यापिशब्दात् वमनादिपु यौगिकस्य द्रव्यभूतस्य च एपातः परं वक्ष्यमाणा परीक्षा। का परीक्षेत्यत आह–इदमेवमित्यादि। एवंप्रकृति ईदृशयोनिकम्। एवंप्रभावमीदृशाचिन्त्यक्रियम् । प्लुतमिति उपायव्याप्तम् उपायग्रहणगृहीतमिति यावत्। एवमन्ये भयादयोऽमूर्तभावा न साक्षादारोग्यकारणानि भवन्ति, किं तर्हि शरीरस्थितानेव वातादीन् तथा कुर्वन्ति समत्वेनोत्पाद्यमानान् । न ह्यमूर्त्तानि मूर्त्तानां शरीरधातूनामुत्पत्तौ समवायिकारणानि भवन्ति, भेषजन्तु द्रव्यमृतं समशरीरोत्पादे समवायिकारणं भवत्येव । तेन द्रव्यस्यारोग्यं प्रति साधकतमत्वं साधु, अमूर्त्तानाम् उपायादीनां न भेषजवत् साधकतमत्वमिति कृत्वा द्रव्यजन्य एव धातुसाम्ये तेषामुपायत्वं युक्तम् । एवं सूक्ष्मया बुया भयादीनामुपायत्वम्, स्थूलया तु बुद्ध्या भेपजव्यवहारश्च आचा-भिमतो द्विविधभेषजेऽर्थेऽद्रव्यभूतभयादिग्रहणादुन्नीयते। न केवलमद्रव्यभूतं भेषजमुपायव्याप्तम्, किन्तु अन्येऽपि परिचारकग्रहणगृहीता एवेत्याह --यथोक्ताः सिद्धपपायाश्चेति । यथोक्ताः सिद्धापायाश्च परिचारकादयोऽत्र दशविधपरीक्ष्ये तु साक्षादनुक्ता उपायाभिप्लुता एवेत्यर्थः । किंवा उपायाभिप्लुतमिति उपायमिश्रितम् । तत्र भयाद्यमूर्तभेषज एव यथोक्ताश्वोपायाः कारणादिसौष्ठवसम्यगभिविधानरूपा अद्रव्यभूतभेषजपक्षगृहीता इत्यर्थः। तेन भयादिषु च तथा उपायशब्दाभिधेयेषु च अव्यभूतभेषजशब्दप्रयोगो भवतीति दर्शयति। ये तु, उपायान्ताभिप्लुतम् इति पटन्ति, ते देशकालावेव अद्रव्यभूतभेषजम् इति वदन्ति। वदन्ति च-द्रव्य अमूर्त इति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy