________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६८३ तस्य यो यः परोक्ष्यविशेषो यथा यथा च परीक्षितव्यः, स तथा तथा च व्याख्यास्यते।
कारणं भिषगित्युक्तमने, तस्य परीक्षा, भिषा नाम स यो भेषति यः सूत्रार्थप्रयोगकुशलो यस्य चायुः सर्वथा विदितं यथावत्। स च सर्वधातुसाम्यं चिकीर्षन्
गङ्गाधरः-अथ कश्चात्र परीक्षाविशेषः कथञ्च परीक्षितव्य इति प्रश्नद्वयस्योत्तरं दर्शयितुमाह-तस्येत्यादि। तस्य दशविधस्य परीक्ष्यस्य यो यः कारणादिः प्रत्येक परीक्ष्यविशेषः स व्याख्यास्यतेऽत ऊद्धं तस्य च यो यः कारणादिर्यथा यथा परीक्षितव्यः स तथा तथा च व्याख्यास्यते । यागादो चेदं दशविधं यथा-यजमानः कर्ता कारणम्। करणमृतिग याज्ञिकद्रव्यादिकम् । कार्ययोनिर्यजमानशरीरस्थनियतिरूपः परमात्मा पुरुषः। कार्य धर्मः । नियतिरूपः पुरुष एव यागादिक्रियाभिर्विक्रियमाणो धर्मरूपेण निष्पद्यते। धर्मस्य कार्य्यस्य फलं स्वर्गप्राप्तिः। अनुबन्धः पुनर्जन्मपुत्रदारधनवान्धवादिप्राप्तिः। देशो याज्ञिकदेशः। कालः स स तत्तद् यागादिक्रियारम्भः। उपायस्तु यजमानादीनां सौष्ठवं तदभिसन्धानञ्चेति । एवं वैधेतरकर्मणि चाधर्मकार्य काम्यकर्मफलत्यागो मोक्षः इति । ___ कारणमित्यादिना भिषगादीनां परीक्षा। भिषङ्नामेत्यादि।यो भेषतीति भिष रुग्जये सौत्रधातुरोणादिकपत्ययेन व्युत्पन्नार्थः यः सूत्रार्थप्रयोगकुशलः प्रकरणात आयुर्वेदीयसूत्रार्थप्रयोगयोर्दक्षः यस्य चायुर्यथावत् सर्वथा विदितं, पूर्वत्रा सिद्धीयविधेरनित्यखात् क्तान्तप्रयोगेऽपि कर्तरि पष्ठी, स भिषक् नाम भवति। स च भिषक् चिकित्साकार्यप्राप्ती कारणं सति धातुवैषम्ये सर्वधातुसाम्यं
- चक्रपाणिः--कश्च परीक्ष्यविशेषः कथञ्च परीक्षितव्य इति प्रश्नद्वयोत्तरं दातुमाह-तस्येत्यादि । यो यो विशेष इति कारणादीनां यो यः कर्तृत्वादिः सजातीयाद्रेत्वादेः तथा विजातीयाच्च भेषजादेविशेष इत्यर्थः। यथा परीक्षितव्य इत्यस्योदाहरणम्, “कच्चिदहमस्य" इत्येवंग्रन्थवक्ष्यमाणं ज्ञेयम् । भिषज्यति चिकित्सति। सर्वथेति हिताहितसुखदुःखतया। यथावत् सर्वधातुसाम्यमित्यादिना, धातुसाम्यस्य चात्र कारणं भिषक न केवलं परेण परीक्षणीयः, किन्त्वात्मना
For Private and Personal Use Only