________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८२
चरक-संहिता। रोगभिषगजितीयं विमानम् भूमिरातुरश्च, कालः पुनः संवत्सरश्चातुरावस्था च, प्रवृत्तिः प्रतिकर्मसमारम्भः, उपायस्तु भिषगादीनां सौष्ठवमभिसन्धानञ्चसम्यक्।इहाप्यस्योपायस्य विषयः पूर्वेणैवोपायविषयेण व्याख्यातः। इति कारणादीनि दशसु भिषगादिषु संसायं सन्दर्शितानि, तथैवानुपू । एतद्दशविध परीक्ष्यमुक्तञ्च ॥७२
चेति व्याधितः स्वस्थश्च पुरुषः। संवत्सर इत्यनेन तदन्तर्गतक्षणमुहूर्त्तदिनपक्षमासानां ग्रहणं वोध्यम्। आतुरावस्था चेति। आतुरस्यावस्था नानाविधा, स्वाभाविकी वैकारिकी च। तत्र स्वाभाविकी शैशववाल्यपोगण्डकैशोरयौवनमध्यमस्थाविया॑तिस्थाविर्य्यरूपा। तत्रापि स्वाभाविकी दौर्बल्यादौर्बल्यसत्त्वबहुलरजोबहुलतमोबहुलब्राह्मसत्त्वादिवातलादिसमवातादिवरूपा च, वैकारिकी तु साध्यासाध्यकृच्छ साध्यदारुणातुर्यबलमांसादिक्षयादिरूपा प्रवृत्तिः। प्रतिकर्मसमारम्भ इति तत्तव्याधिप्रतिकारारम्भो भिषजः। उपायं दर्शयति-उपाय इत्यादि। भिषगादीनां सौष्ठवं सुष्टुवं सम्यगभिसन्धानञ्च। ननपायस्य भिषगादीनां सौष्टवस्य सम्यगभिसन्धानस्य च वमनादिकार्यप्राप्तौ विषयः क इत्यत आह-इहाप्यस्येत्यादि। इह वमनादिकार्यप्राप्ती अस्य भिषगादीनां सौष्ठवस्याभिसन्धानस्य चोपायस्य विषयः पूर्वणैवोपायविषयण कार्यकार्यफलानुबन्धेत्यादिना व्याख्यातः। तथा च धातुसाम्ये काये कृतवमनादौ कर्मणि नोपायार्थोऽस्ति वमनादिकर्मकरणकालेऽपि नोपायार्थोऽस्ति । कृताच वमनादित उत्तरकालं सुखावाप्तिः आयुश्च नोपायाथोऽस्ति परन्तु कर्तव्ये सति वमनादिकर्मणि भिपगादीनां सौष्ठवं सम्यगभिसन्धिश्चास्ति इति कर्मणः प्राक्कालो विषय इत्यर्थः । उपसंहरति। इति कारणादीनीत्यादि। तथैवानुपूर्वोति कारणाद्यानुपूा। परीक्ष्यं समापयति-एतदित्यादि । इति कतिविध परीक्ष्यमिति प्रश्नस्योत्तरम् ॥७२॥
यदुक्तम्, तदुपपन्नम्। कर्ता ह्यत्र भिषक् । तेनातुरगतमप्यायुर्भिषगपेक्षितत्वेन भिषज एवं फलमिति ज्ञेयम् । प्रतिकर्म चिकित्सा। इहाप्यस्य इत्यादि, अत्रापि कार्य्यफलानुबन्धव्यतिरिक्तानां सौष्ठवमभिविधानञ्च यथोक्तन्यायेनोपाय इति दर्शयति ॥ ७२ ॥
For Private and Personal Use Only