________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८४
चरक-संहिता। रोगभिषगजितीयं विमानम् आत्मानमेवादितः परीक्षेत। तद् यथा—गुणिषु गुणतः कार्याभिनिर्वृत्तिं पश्यन् कच्चिदहमस्य कार्यस्याभिनिवर्त्तने समर्थोऽस्मि न वेति। तत्रत भिषगगुणाः, यैरुपपन्नो भिषग् धातुसाम्याभिनिवर्त्तने समर्थो भवति। तद् यथा-पर्यवदातश्रुतता परिदृष्टकर्मता दाक्ष्यं शौचं जितहस्तता उपकरणवत्ता सर्वेन्द्रियोपपन्नता प्रकृतिज्ञता प्रतिपत्ताभिज्ञता चेति ॥ ७३ ॥ ___ करणं पुनर्भेषजम्।भषजं नाम तद् यदुपकरणायोपकल्प्यते, चिकीपन कत्तु मिच्छन् आदितः प्रथमत आत्मानं स्वं परीक्षेत। ननु कथं भिषगात्मानं परीक्षतेत्यतस्तद्यथेत्युक्त्वाह-गुणिष्विति । गुणिषु पुरुषेषु धातुवैषम्यव्याधिषु साम्यरक्षणेषु वा वैद्यः स्वस्य गुणतः कार्याभिनिष्ट त्तावस्य काय्यस्य व्याधिनित्तिरूपस्याभिनिवर्त्तने कच्चिदहं समर्थो भविष्यामि न वेत्येवं पश्यन्नात्मानमादौ परीक्षेत। एतदातुरीयैतद्व्याधिरूपधातुवैषम्यनिवृत्तिरूपस्य कार्य्यस्याभिनिव्वर्त्तनेऽहं समर्थो भवामि वा न वेति रूपेण स्वं परीक्षेत । ननु के वैद्यगुणा इत्यत आह-तत्रेत्यादि। यैरिति गुणैः। एतेन वक्ष्यमाणगुणवत्तायां भिषजोऽवश्यं साध्यव्याधिनिवृत्तिकरणे सामर्थ्य मिति ख्यापितम् । गुणानाह-तद् यथेत्यादि। पर्यवदातश्रुततादयो गुणा दशप्राणायतनिके व्याख्याताः॥७३॥
गङ्गाधरः-चिकित्सायां करणस्य भेषजस्य परीक्ष्यविशेषस्य यथा परीक्षितव्यवं तद्वक्त करणं भेषजं लक्षयति-करणमित्यादि। करणं पुनभेषजमित्यत्र इत्युक्तमग्रे तस्य परीक्षेति पूर्ववचनस्यान्वयः । एवं परत्रापि सर्वत्र बोध्यम् । भेषजं नाम तदित्यादि। यत् विषमधातूनां धातुसाम्याभिनिर्वृत्तौ प्रयतमानस्य भिषज उपकरणायोपकल्प्यते तद् भेषजं नाम। न चात्र युक्तिप्यात्मानं स च परीनयेदिति दर्शयति । अथ कथमात्मानं परीक्षयेदित्याह-गुणेष्विति, आत्मानं गुणयोगतया परीक्षयेदित्यर्थः । गुणत इति हेतौ पञ्चमी। कच्चिदितीच्छाप्रकाशने। प्रतिपत्तिरूपन्नायामापदि झटिति कर्त्तव्यकरणम् ॥ ७३ ॥
चक्रपाणिः-विशेषतश्चोपायान्तेभ्य इत्यनेन, कार्ययोनिप्रवृत्तिदेशकालोपायेभ्योऽन्यद यद यत् * गुणेविति चक्रः ।
For Private and Personal Use Only