________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६७६ भेदप्रकृत्यन्तरेण भिन्नया परीक्ष्य केन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्य भेदाय वा पृच्छति भवान्, आख्यायमानम्। वेदानी भवतोऽन्येन विधिभेदप्रत्यन्तरेण भिन्नया परीक्षया अन्येन वा विधिभेदप्रकुत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलषितमर्थ श्रोतुरहमन्येन परीनाविधिभेदेनान्येन वा विधिभेदप्रत्यन्तरेण परीक्ष्यं नित्त्वार्थमाचनाण इच्छाश्च प्रपूरयेयमिति। स यदुत्तरं
प्रकृत्यन्तरेण प्रकारविशेषाणां प्रकृतिविशेपेण भिन्नस्य खलु परीक्ष्यस्य भेदा पृच्छति, केन वा प्रकारभेदानां प्रकृत्यन्तरेण भेदकधर्मान्तरेण भिन्नस्य परीक्ष्यस्य भेदार भेदसङ्ख्यापरिच्छेदं पृच्छति। इदानी वा अन्येन एकप्रकारेण विधिभेदप्रकृत्यन्तरण प्रकारविशेपाणां योनिविशेषण भिन्नया परीक्षया परीक्ष्यस्याभिलपिनमर्थ श्रोतुर्भवतोऽहमिच्छां पूरयेयमिति । अन्येन वा अपरेण वा विधिभेदप्रकृत्यन्तरेण प्रकारविशेषाणां योनिविशेषेण भिन्नस्य परीक्ष्यस्य वस्तुनोऽभिलपितमर्थ श्रोतुर्भवत इच्छामहं पूरयेयमिति । अथवान्येन तद्भिन्नेन एकेन परीक्षाविधिभेदेन परीक्षाप्रकारविशेषाणां योनिविशपेण अन्येन वा भवदीयां अपरप्रकारेण विपरीतेनापरेण वा विधिभेदप्रकृत्यन्तरेण प्रकारविशपाणां योनिविशेपेण परीक्ष्यं वस्तु भित्त्वा भेदं कृतार्थ परीक्ष्यस्यार्थम् आचक्षाणो व वन भवत इच्छाञ्च पूरयेयमिति ब यादेनमिति पूर्वेण सम्बन्धः ।
यदि मोहयितुमिच्छेदिनि यदि विगृह्य पम्भापाप्रवृत्तत्वेन माहयितुमिच्छदित्यर्थः। तथेति बहुविध इत्यर्थः। विधिरूपो भेदो विधिभेदः, तस्य प्रकृत्यन्तरमिति कारणान्तरम् । भेदाग्रमिति भेदपरिमाणम् । भेदपरिमागचेति भेदसंख्यापरिच्छेद एव ज्ञेयः। आख्यायमानम् इति च्छेदः। किन पुनः पृच्छतोत्याकाडायामाइ-नेदानोमित्यादि। भवतोऽन्यथा श्रोतुम् अभिलपितमर्थमहमन्यथाचक्षागो न भवत इच्छा पूरयेयम्। तेन त्वमेव तावत् विशेषयित्वा पृच्छेति वाक्यार्थः। यदा तु वेदानीं न पूरयेयम्' इति च पाठः, तदा वेदानीमित्यग्रे आचक्षाण इच्छां न पूरयेयमिति योजना। किंवा वेति पूर्वेण युज्यते। तेन कतमेन विधिभेदप्रकृप्यन्तरेणाख्यायमानं भवानिच्छति, केन वा विधिभेदनकृत्यन्तरेणाख्यायमानमिच्छतीति योज्यम् । इदानीमित्यादि तु पूर्ववदाशङ्कायां वचनम्, एतद्विशेषप्रच्छकोऽधिकव्याकुलो भवतीति
... *. नेदानीमिति वा पाठः।
For Private and Personal Use Only