________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७८
चरक-संहिता। रोगभिपग्जितीयं विमानम् ___ तत्र चंद्भिषग अभिषग् वा निषजं कश्चिदेवं खलु पृच्छेत् । वमनविरेचनास्थापनानुवासनशिरोविरेचनानि प्रयोक्तुकामेन भिषजा कतिविधया परीचया कतिविधमेव परीक्ष्यम् ; कश्चात्र परीच्यविशेषः, कथञ्च परीनितव्यं, किंप्रयोजना च परीक्षा, क च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः, प्रवृत्तिनिवृत्तिसंयोगेन 8 च किं नैष्ठिकं, कानि च वमनादीनां भेषजद्रव्याण्युपयोगं गच्छन्तीति।
स एवं पृष्टो यदि मोहयितुमिच्छेत्, बयादेनं बहुविधा हि परीक्षा तथा परीक्ष्यविधिभेदः। कतमेन विधि
गङ्गाधरः-परीक्षया केवलं परीक्ष्य परीक्ष्येति यदुक्तं तत्र प्रष्टव्यान्याहतत्रेत्यादि। तत्रेत्युक्तविधौ, चेद यदि। वमनादीनि कायचिकित्सादिसाधारणत्वादुक्तानि। शल्यादिपु प्रानियतकाणि खनया दिशैव उन्नेयानि। परीक्ष्यविशेषः परीक्षणीयानां प्रभेदः। कथञ्च केन प्रकारेण परीक्ष्यं परीक्षितव्यं परीक्ष्येत। किंप्रयोजना किं प्रयोजनमस्याः सा, परीक्षायाः किं प्रयोजनमित्यर्थः। क च कस्मिन वस्तु नि वमनादीनां प्रवृत्तिः कर्तव्यता । क च वमनादीनां नित्तिरकर्त्तव्यता। वमनादीनां प्रतिनित्तिसंयोगेन वमनादीनां क च कर्तव्यता चाकर्तव्यता चेति। तत्र कि नैष्ठिक किं कर्त्तव्यं व्यवस्थितं स्यात् । कानि च वमनादीनां भेषजद्रव्याणि उपयोगश्च गच्छन्तीति चेद्भिषक अभिपग वा भिपजं पृच्छेत् तदा। ___ स एवमित्यादि-एवमुक्तप्रकारेण पृष्टः स भिषक् यदि प्रष्टार मोहयितु मुग्धं कत्तु मिच्छेत, तदैनं प्रष्टारं ब्रू यात्। किं वयादित्यत आह-बहुविधेत्यादि । तथंति बहुविधः परीक्ष्यभेदः । भवानाख्यायमानं मां कतमेन विधिभेद-.
चक्रपाणिः-सम्प्रत्युक्तं कारणादिदशकं वैद्योपयुक्तं भिपगादिदृष्टान्तेन दर्शयितु तत्र चेद्' इत्यादि प्रकरणमारभते । अभिपग्वेति किञ्चिद्भिपगित्यर्थः। कतिविधं परीक्ष्यमिति कतिप्रकारं परीक्षणीयम्। प्रवृत्तिनिवृत्तिलक्षणसंयोग इति प्रवृत्यनुगुणनिवृत्यनुगुणयोर्लक्षणयोरेकर मेलके। नैष्टिकमिति निष्टा निश्चयस्तद्भवं नैष्टिकं निश्चयेन कर्त्तव्यमित्यर्थः ।
* प्रवृत्तिनिवृत्तिलक्षणसंयोगे इति चक्रभृतः पाठः ।
For Private and Personal Use Only